अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 245, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete and accurate line-by-line transcription in pure Markdown Devanagari based on the provided image:
१५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । पृथग्भूतं कार्यं दृश्यते । तस्मात् किंचिदेतत् । तदयं संग्रहश्लोकः- 'कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा' ॥ इति । अत्र वाचस्पतिमिश्रा उक्तां कारिकामुपम्यस्याहुः-कः पुनरयं भेदो नाम, यः सहा- भेदेनेकत्र भवेत् । परस्पराभाव इति चेत् किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा । न चेत् एकत्वमेव वास्तवं न भेदः । अस्ति चेत् भेद एव, नाभेषः । न च भावाभावयोर- विरोधः । सहसंभवात् । संभवे वा कटकरुचकयोरपि तवेनाऽभेदप्रसङ्गः । भेदसा- भेदाविरोधात् । अपि च । कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते, एवं कटकात्मना न भिद्येरन् । कटकस्य हाटकादभेदात् । तथाच हाटकत्वमेव वस्तु सन्न कटकादयोऽभेदस्याप्रतिभासनात् । अथ हाटकत्वेनैवाभेदो, न कटकत्वेन । तेन तु भेद एव कुण्डलादेः । यदि हाटकादभिन्नः कटकः, कथमयं कुण्डलादिषु नानुवर्तते । नानु- वर्तते चेत् कथं हाटकादभिन्नः । ये हि यस्मिन्ननुवर्तमान व्यावर्त्तन्ते ते ततो भिन्ना एव । यथा सूत्रात् कुसुमभेदाः । नानुवर्तन्ते चानुवर्तमानपि हाटकत्वे कुण्डलादयः । तस्मात् तेऽपि हाटकाद्भिन्ना एवेति । सहानुवृत्त्या च सर्ववस्त्वनुगमे, इहमिह नेदमत्राभेदमितिमिदानीं नेद- मिदमेवं नेदमेवमिति विभागो न स्यात् । कस्यचित् क्वचित् कदाचित् कथंचित् विवेकहेतोरभावात् । रश्मिः । दृश्यत इत्यर्थः । तस्मादिति कार्यस्य कारणाश्रितत्वेन तज्ज्ञानस्य यथार्थत्वेन च दृष्टान्तस्य विरुद्धत्वादित्यर्थः । तदयमिति तदित्यव्ययं हेत्वर्थकम् । नानात्वमिति भेद इत्यर्थः । तस्य नानात्वनिबन्धनत्वात् । अभेद इति कुण्डलं सुवर्णमिति सामानाधिकरण्यप्रतीतेरभेद इत्यर्थः । भिदेति सुवर्णं कुण्डलं नेति प्रतीतेर्भिदेत्यर्थः । नचेदिति कटकसुवर्णयोरन्योन्या- भावो यदि न तर्हि एकस्मिन् घटे स्वेभेदाभाववति एकत्वमिवैकत्वमेव । तथा कटकं सुवर्णमिति प्रतीतेः सुवर्णं कटकं नेति प्रतीतिसत्त्वेपि न भेद इत्यर्थः । नाभेष इति अन्योन्या- भाववतोर्घटपटयोरिव नाभेद इत्यर्थः । संभव इति घटतदत्यन्ताभावयोरिव संबन्धाभाव- दशायां भेदतदभावयोः संभवे वा कटकशरावयोः परस्पराभाववतोपि कटकत्ववर्धमानकत्व- रूपेण तवेत्यर्थः । ननु तथाप्रतीत्यभावान्नभेद इति चेत्तत्र दूषणान्तरमाहुः अपि चेत्यादि । भेदस्येति हाटको न कटक इति भेदेऽस्यात्यन्ताभावरूपस्य भेदाभावस्याभेदस्याप्रतिभासमानत्वात् । अथ, न कटकादय इत्यत्र हेतुः । यद्वा कटकं हाटकमिति प्रतीत्याभेदस्याप्रतिभासनादित्यर्थः । कुण्डलादेरिति । इति विभाव्यते तदा इति शेषः । अयमिति कटक इत्यर्थः । ननु कटकत्वं हाटकत्वं न व्यभिचरतीति कथं भिन्ना इति चेत्तत्राहुः सहानुवृत्त्येत्यादि । अनुगम इति । सर्वत्रेति शेषः । इदमित्यादि इह क्षीरं इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात् । तथा कुम्भादिदं पटादिकं भिद्यते इदं कुम्भमस्मात्कुम्भात्र भिद्यते इत्यसंकरो न स्यात् । एवमिदं कोकिलरुतमिदानीं वसन्तसमयेऽस्ति, इदमम्बुदध्वानं नेति व्यवस्था न स्यात्, तथेदं घटादि एवं कम्बुग्रीवादिप्रकारकं इदं पटादिकं एवं नेति प्रकारासंकरो न स्यादित्यर्थः । उक्तसम्बन्धासु हेतुमाहुः कस्यचिदित्यादि । कुतश्चिदपीति ध्येयम् । अभावादिति सर्वस्य भिन्नाभिन्नत्वेना 158