अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 246, कुल 2600 में से
संदर्भ में पढ़ेंअपि च । दूरात् कनकमित्यवगते, न तस्य कुण्डलादयो विशेषा जिज्ञासेरन् । कनकादभेदात् तेषाम् । तस्य च ज्ञातत्वात् । अथ भेदोऽप्यस्ति कनकात् कुण्डलादीनामिति कनकावगमेऽपि अज्ञातास्ते । नन्वभेदोऽप्यस्तीति, किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युक्तम् । कारणा- भावे हि कार्याभाव औत्सर्गिकः । स च कारणसत्त्वाद्पोद्यते । अस्ति चाभेदे कारणसत्तेति । कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः । तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत् ततो भिद्यते । यथा करभे गृह्यमाणे अगृह्यमाणो रासभः करभात् । गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः । तस्मात् ते हेम्नो भिद्यन्ते । कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यमिति चेत् । नाधाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् । न सत्यभेद एकान्तिकेऽनैकान्तिके चैतदुभयमुपपद्यते यत इत्युक्तम् । तस्माद् भेदा- तथेत्यर्थः । तस्येति हाटकस्येत्यर्थः । तस्य चेति कनकस्य चेत्यर्थः । तेषामिति कुण्डलादी- नामित्यर्थः । एवं युक्त्या भेदापवादेनाभेदं व्यवस्थाप्य श्रुत्यापि भेदं कारणत्वेन निराकुर्वन्तिस्म अभेदो हि वास्तवो भेदोऽनिर्वचनीय इति । अथेत्यादि । कारणाभाव इति कारणं हि 'अथात आदेशो नेति नेति' इति श्रुत्या मूर्त्तामूर्तापोदितं ब्रह्म तदद्वैतमभावः, तस्मिन् हि सति कार्यं भेदो मायामात्रं तदपोऽभावः । स चेति कार्याभाव इत्यर्थः । अपोद्यत इति उक्तश्रुत्यापोद्यते । अस्ति चेति अमेदेऽद्वैते सति । एवं कनकाभेदे कटकादिकारणे सत्त्वोन्नेया । ज्ञाता एवेति एव- कारस्तु एकविज्ञानेन सर्वविज्ञानश्रुत्यनुरोधात् । तज्जिज्ञासेत्यादि तेषां कुण्डलादीनां जिज्ञासा ज्ञानानि चेत्यर्थः । कार्यकारणयोरभेदाभावं सप्रमाणमुपसंहरन्ति तेनेत्यादि । अपोद्यं कार्ये भेदं दर्शयन्ति स्म यथेति । कारणेपि भेदं दर्शयितुं दृष्टान्तेपि भेदं दर्शयन्ति स्म गृह्यमाण इति । दूरत इति समीपस्तस्तु शास्त्रदृष्टिकैर्गृह्यन्त इत्यभेदवादान्नोक्तं सूचितं परम् । कुण्डलहाटकयोर्भेदाभेदा- वेव वाच्यौ सामानाधिकरण्यानुरोधात्, न ह्यत्यन्तभेदे तदस्ति, कुण्डलकटकयोरदर्शनात्, अत्यन्ताभेदेपि न हेमहेमेत्यनुपलम्भादिति । भास्कराचार्यमतमनुवदन्ति कथं तर्हीत्यारभ्य-इत्युक्त- मित्यन्तेन । ननु न हेम कुण्डलमिति प्रतीतिरत आहुः समानेत्यादि । भिन्नप्रवृत्तिनिमित्तत्वे सति एकार्थबोधकत्वं सामानाधिकरण्यं, तथा च नेयं प्रतीतिः किं तु सामानाधिकरण्योक्तिरिति भावः । यद्वा सामानाधिकरण्यमेकदेशवृत्तित्वम् । नहीति हेमकुण्डलयोर्नाधाराधेयभावः, ब्रह्मजगतोस्तु वर्तते इति दृष्टान्तवैषम्यम्, घटकपालयोस्तु वर्तते आधाराधेयभावः स न दृष्टान्तः । शीतोष्णयोर्भिन्नाधारवर्तित्वेन समानाश्रयत्वं नास्ति ब्रह्मजगतोस्तु वर्तते 'स आत्मा खमाश्रयाश्रयः' इति वाक्यादित्याहुः समाना- श्रयत्व इति । उक्तं उक्तप्रायम् । यदि हेम्नः सकाशात् कुण्डलादीनां भेदाभेदौ स्यातां तर्हि तेषामनुवृत्तेर्हेम्नः सकाशादभेदादितरेतरव्यावृत्तिर्न स्यान्न स्याच्च हेम्नि निर्णीते संशय इति प्रतितर्केण मिथो- विरोधात्त्वेन सामानाधिकरण्यानुपपत्तिरूपं तर्क वितण्डया दूषयन्ति अथानुवृत्तीत्यादि । इदमिह नेदमित्यादिनोक्त्यर्थः । नन्वल्यन्ताभेदे मा भूदनुवृत्तिव्यावृत्तिव्यवस्था मा भूच्च हेम्नि ज्ञाते कुण्डलादि- जिज्ञासा भेदाभेदमते ते किं न स्यातामित्याशङ्कय पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयन्ति न खल्वित्यादि । ऐकान्तिक इति भेदाभाववद्वृत्तिनि अभेदे तदभाववर्तिनि चानुवृत्तिव्यावृत्तिव्यवस्था कुण्डलादिजिज्ञासा चेत्येतदुभयमित्यर्थः । स्वमतेन सामानाधिकरण्यमुपपादयन्ति तस्मादित्यादि