अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 247, कुल 2600 में से
संदर्भ में पढ़ें१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ भाष्यप्रकाशः । मेदयोरन्यतरस्मिञ्झेये । अभेदोपादानैव भेदकल्पना, न भेदोपादाना अभेदकल्पनेति युक्तम् । भिद्यमानतन्त्रत्वाद् भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात् । एकाभावे नानाश्रयस्य भेदस्या- योगात् । एकस्य च भेदानधीनत्वात् । नायमयमिति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वादे- कत्वग्रहस्य चान्यानपेक्षत्वादभेदोपादानैवानिर्वचनीयकल्पनेति सांप्रतम् । तथा च श्रुतिः, 'मृत्तिकेत्येव सत्यम्' इति । तस्मात् कूटस्थनित्यतैव पारमार्थिकी, न परिणामिनित्यतेति सिद्धमिति । तदनवधानविजृम्भितमेव । उक्ते मते भेदाभेदयोर्नानात्वैकत्वरूपतया भेद- स्यान्योन्याभावरूपत्वानङ्गीकारेण तदादाय तन्मतदूषणस्य गगनकुसुमसौरभ्यकल्पत्वात् । पर- स्परा