अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 248, कुल 2600 में से
संदर्भ में पढ़ेंशंकराचार्यैरवोक्तत्वात् । अतः परं सहानुभुप्यादिनोक्तो दूषणत्वेन प्रतीतिविरोधो वक्तव्यः । स चेद् विद्यमानेऽपि कुण्डलादिना भेदे कनकत्वेनाभेदः प्रतीयते तदा न प्रती- तिविरोधोऽपि । प्रमाणेनाधिगमात् । प्रमिते च तस्मिन्, दूरात् कनकमित्यादिनोक्तानां विकल्पानामनवसरपराहृतत्वादिति प्रतीयते चेदुभयमितिकारिकयैवोक्तं व्युत्पादितं च । अतो मुकुटकटकादीनामवस्थात्वेन हेमसामानाधिकरण्यस्य सामयिकत्वेन च व्यावृत्तिमद्वयवस्थाजिज्ञा- साजनकत्वयोरुपपत्तेर्भेदस्यागन्तुकत्वमेव, न त्वनिर्वचनीयत्वम् । नच श्रुतिविरोधः । उक्त- श्रुतौ परिणामिनो मृदादीनेव दृष्टान्तीकृत्य, एव२ सौम्य स आदेशो भवतीति दार्ष्टान्ति- केऽतिदेशेन परिणामिनित्यतया एव श्रुत्यभिप्रेतत्वात् । नचात्र कारणे सत्यत्वस्य कार्ये वाचा- रम्भणत्वस्य चो