अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 249, कुल 2600 में से
संदर्भ में पढ़ें'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इत्यादिश्रुतिष्वचिद्वस्तुचिद्वस्त्वीश्वराणां यथायथं भोग्यत्वभोक्तृत्वनियन्तृत्वैः स्वरूपविवेकात् त्रयोऽपि भिन्नाः । तथा, 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः' इत्यारभ्याऽऽपोऽग्निरन्तरिक्षं वायुद्यौरादित्यो दिशश्चन्द्रतारकमाकाशस्तमस्तेजः सर्वाणि भूतानि प्राणा वाक् चक्षुः श्रोत्रं मनस्त्वग् विज्ञानं रेत इत्येतानि काण्वपाठन, विज्ञान- स्थाने, आत्मा लोकयज्ञवेदाश्चाधिका माध्यन्दिनपाठन, वाजसनेयके बृहदारण्यकेऽन्तर्यामि- ब्राह्मणे ब्रह्मशरीरत्वेनोक्ता। ब्रह्मण आत्मत्वं चोक्तम् । सुबालोपनिषदि तु वाजसनेयक उक्ताः पृथिव्यादयस्तत्राऽनुक्ताश्च बुद्धिचित्तान्यक्ताक्षरमृत्यवश्च शरीरत्वेनोक्ताः । 'यः पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः' इत्यारभ्य 'यस्य मृत्युः शरीरम्' इत्यन्तेन तथोक्तम् । तेन पृथिव्यादीनां स्थूलानामव्यक्ता- दीनां सूक्ष्माणां च शरीरत्वश्रावणात् । स्थूलसूक्ष्मभेदेन द्विविधस्याप्यचिद्वस्तुनो ब्रह्मशरीरत्वम् । अव्यक्तादीनि त्वव्यक्ताऽक्षरतमांसि गुणत्रयसाम्यावस्थास्वरूपायाः प्रकृतेरेव सूक्ष्मपरिणामविशे- षाणि रूपान्तराणि तेषु मूलभूतं रूपं तमः । सुबालोपनिषद्येव प्रलयप्रकरणे, 'पृथिवी अप्सु लीयते आपस्तेजसि तेजो वायौ वायुराकाशे आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ भूतादिर्महति महान् अव्यक्ते अव्यक्तमक्षरे अक्षरं तमसि लीयते तमः परे देव एकी- भवति' इत्यविभागापत्तिदशायां विभागव्यपदेशानर्हरूपेण तस्यैवावस्थानात् । शरीरकथनप्रस्तावे च तमःस्थाने मृत्योः श्रावणान्मृत्युशब्देनात्र तम उच्यत इति निश्चीयत इति तस्यापि शरी- रत्वं निर्बाधम् । एवं काण्वोक्तविज्ञानस्थाने आत्मनः श्रावणाच्चिद्वस्तुनोऽपि ब्रह्मशरीरत्वमसं- दिग्धम् । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एवेति 'सदेव सौम्येदमग्र आसीत्' 'सत्यं चानृतं च सत्यमभवत्' इत्यादौ जगतो ब्रह्मत्ववादः । प्रपञ्चरूपे
रश्मिः।
श्रुतिरेव । श्रुत्यंशमायिमायापदे व्याकरोति मायां त्वित्यादि । अचिदित्यादि विश्वमित्यचित्, मायया संनिरुद्धोऽन्यश्चित्, मायीश्वरस्तेषां यथायथं श्वेताश्वतरपञ्चमाध्याये 'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते' ॥ इत्युपक्रम्य कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसंपद्यते 'स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति' इति भोग्यत्वभोक्तृत्वे 'सर्वाधिपत्यं कुरुते महात्मा' इति नियन्तृत्वं चोक्तं तैरित्यर्थः । आदिशब्दार्थभूतां श्रुतिमाहुः यः पृथिव्यामित्यादि । आपोभिरित्यादि 'योऽप्सु तिष्ठन् अपामन्तरः' इत्यादि । एवं 'अग्नौ तिष्ठन्नग्नेरन्तरः' इत्यादिः। एवमग्रेपि । बुद्धिश्चितेति यो बुद्धि- मन्तरे संचरन् यस्य बुद्धिः शरीरमित्यादि । एवमग्रेपि । श्रुतिमाहुः यः पृथिवीमित्यादि । तथोक्त- मिति पृथिव्यादीनि शरीरत्वेनोक्त्वा ब्रह्मण आत्मत्वं चोक्तम् । इति भोग्यभोक्तृनियन्तृत्वान्युक्तानि । तस्यैवेति तमंस एवेत्यर्थः । अत्यन्तविसरणरूपमृत्योः कथं शरीरत्वमित्यतो मृत्योः शरीरत्वं कथयन्ति शारीरेत्यादि । अत्रेति शरीरप्रस्ताव इत्यर्थः । तस्यापीति मृत्योरपीत्यर्थः । अन्यथा सुबालोपनि- षच्छरीरप्रस्तावप्रलयप्रकरणयोरेकवाक्यता न स्यादिति भावः। सत्यं चानृतं चेति चिदचिदित्यर्थः ।