भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 250, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 250
  • [Header] भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६६३
  • शरीरे प्रलयदशायां तमःशब्दवाच्यातिसूक्ष्माचिद्वस्त्वेकशेषे सति तमसि च सशरीरतया
  • विनिर्देशानर्हातिसूक्ष्मदशापन्न्या स्वस्मिन्नेकतापने सति तथाभूततमःशरीरं ब्रह्म पूर्ववत्, विभ-
  • क्तनामरूपचिदचिन्मिश्रप्रपञ्चरूपः स्यामिति संकल्प्याप्ययक्रमेण जगच्छरीरतयाऽऽत्मानं परि-
  • णामयतीति सर्वेषु वेदान्तेषु परिणामोपदेशः । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं
  • कारणं चेति जगतो ब्रह्मोपादानकत्वेऽपि सूक्ष्मचिदचिदीश्वरसंघातस्यैवोपादानत्वेन चिदचि-
  • तोर्ब्रह्मणश्च भोक्तृत्वभोग्यत्वनियामकत्वरूपस्वभावासं करोऽप्युपपन्नतरः । शुक्लकृष्णरक्ततन्तुसं-
  • घातोपादानके चित्रपटे तत्तत्तन्तुप्रदेश एव शौक्ल्यादिवत् तत्र तत्र भोक्तृत्वादीनां व्यव-
  • वस्थत्वात् । एतावान् पर