सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2423, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2423

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६७

भाष्यप्रकाशः । पदानुरूपमेव ग्राह्यमिति । 'अत्ता चराचरग्रहणा'दित्यादौ तथा दर्शनाभावात् । अतोऽर्थमादाय विषयवाक्यग्रहणं नानुचितमिति दिक् ॥ यत्तु शङ्कराचार्याः, सम्पद्याविर्भावाधिकरणं त्रिसूत्रमङ्गीकृत्य, प्रथमसूत्रे 'एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत' इति छान्दोग्ये इन्द्रप्रजापतिसंवादस्थां श्रुतिं विषयवाक्यत्वेनोपन्यस्य, किं देवलोकाद्युपभोगस्थानेष्विवागन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते, उतात्ममात्रेणेति संशये, मोक्षस्याफलत्वप्रसिद्धेः 'अभिनिष्पद्यत' इत्युत्पत्तिपर्यायभूतशब्दप्रयोगादात्मनश्च सर्वदा विद्यमानत्वेनाभिनिष्पत्तेर्वक्तुमशक्यत्वाच्चागन्तु- केनेति पूर्वपक्षमुक्त्वा, केवलेनैवात्मना आविर्भवति, न धर्मान्तरेण । कुतः । स्वेन रूपेणाभि- निष्पद्यत इति स्वशब्दात् । अन्यथा 'स्वेने'ति विशेषणस्य वैय्यर्थ्यप्रसङ्गात् । न चात्मीयवाची स्वशब्द इति युक्तम् । तस्य रूपान्तरेपि तुल्यत्वेनात्र विशेषतस्तत्कथनस्य वैयर्थ्यानपायात् । अतः 'स्वेने'ति विशेषणसार्थक्यार्थं केवलेनावतिष्ठत इति सिद्धान्तं व्याख्याय, पूर्वावस्थास्विह च स्वरूपानपायसाम्ये सत्यत्र को विशेष इति शङ्कायां द्वितीये सूत्रे सर्वबन्धविनिर्मुक्तत्वरूपो विशेषः । पूर्वे जाग्रदाद्यवस्थासु, 'अन्धो भवती'ति, 'रोदितीवे'ति, 'विनाशमेवापीतो भवती'- त्यवस्थात्रयकालुष्यकथनेन बन्धाविमोकबोधनात् । तस्य मुक्तत्वं च 'एतं त्वेव ते भूयोऽनु- व्याख्यास्यामी'त्यवस्थात्रयविहीनस्यात्मनो व्याख्यायेतत्वेन प्रतिज्ञातस्याशरीरत्वाद्युपन्यासपूर्वकं 'स्वेन रूपेणाभिनिष्पद्यत' इत्युपसंहारात् । आख्यायिकोपक्रमे चापहतपाप्मेत्यादिमुक्तआत्म- विषयप्रतिज्ञानादिति व्याख्याय, तृतीयेसूत्रे 'परं ज्योतिरुपसम्पद्ये'त्यनेन ज्योतिःसम्पत्तेरुक्त- त्वाज्ज्योतिषश्च प्राकृतत्वात् सम्पत्तौ कथमस्य मुक्तत्वमिति शङ्कायां 'परं' 'ज्योति'रिति पदाभ्यां 'तद्देवा ज्योतिषां ज्योति'रिति श्रुत्यन्तराज्ज्योतिःशब्देन परं ब्रह्मैवोच्यते, न तु प्राकृतमत- स्तत्सम्पत्तौ न मुक्तत्वभङ्गः । आत्मन एव प्रकरणदर्शनादित्याहुः । ततो 'ऽविभागेन दृष्टत्वा'- दित्येकसूत्रमधिकरणान्तरमङ्गीकृत्य, किं मुक्तः परमेश्वराद्भेदेनावतिष्ठते, उताभेदेनेति शङ्का- यामविभक्त एवावतिष्ठत इति सिद्धान्तयन्ति । ततो 'ब्राह्मेणे'त्यादित्रिसूत्रमधिकरणमङ्गीकृत्य, पूर्वाधिकरणे यदात्मरूपेण स्वेनाऽनागन्तुकेनावतिष्ठत इत्युक्तम्, तत् कीदृशमिति चिन्तायां जैमिनिस्तावद् यद् ब्राह्मं रूपम्, 'अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्प' इत्यनेन प्रागुक्तम्, तथा सर्वेश्वरत्वं सर्वज्ञत्वं च तेन रूपेणाभिनिष्पद्यत

रश्मिः । स्वेनेति पदेऽपि तौल्यम् । तथेति । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स' इति काठकस्थस्य विषयवाक्यस्य सौत्रपदानुरूपत्वदर्शनाभावात् । न चात्मीयेति । तदा आत्मीयेन केनचिद्विशेषेणेति स्वेन रूपेणेत्यस्यार्थः । तस्येत्यादि । तस्यात्मीयत्वस्य रूपान्तरेषु मोक्षेऽविवक्षितेषु तत्कथनस्येति । आत्मीयवाचिनः स्वेनेत्यस्य कथनस्य । इह चेति । मोक्षावस्थायां च । अपायो नाशः । अत्रेति । मुक्तौ । रोदितीवेति । स्वप्ने रोदितीव देवदत्तो न तु रोदितीति । स्वापे नाशमेवापीतोपि गतः । कालुष्यमशुद्धत्वम् । एतमिति । अवस्थात्रयविहीनम् । तत्सम्पत्तौ ज्योतिःसम्पत्तौ । तदिति । रूपम् । प्रागुक्तमिति । दहर- विद्यायां प्रजापतिवाक्याद्विद्यापूर्वमुक्तं छान्दोग्ये । तथेति । यथा प्रागुक्तं ब्राह्मं रूपम् । तथा 2285