अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2422, कुल 2600 में से
संदर्भ में पढ़ें१६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ भ० २ सू० ७. भाष्यप्रकाशः। न च निःसम्बोधा मुक्तिरिति युक्तम् । 'ब्रह्मैव सन् ब्रह्माप्येती'त्यत्र ब्रह्मभावोत्तरमेव मुक्तेः श्रावणात् । ब्रह्मणश्च विरुद्धधर्माश्रयताया उभयलिङ्गाद्यधिकरणेष्वेव निर्णयेन निर्विशेषवादस्य प्रागेव निरस्तत्वात् । ये पुनः प्रजापतिवाक्यस्थां 'एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत' इति श्रुतिं विषयवाक्यत्वेन आद्रियन्ते, तेषामपि तस्यास्तथात्वं सन्दिग्धमेव । सूत्र उपसम्पत्तिपदाभावात्, 'केवलस्य सम्पद्येति पदस्य 'सता सौम्य तदा सम्पन्नो भवति सति सम्पद्य न विदुः सति सम्पद्यामह' इति सुषुप्तिविषये श्रावणात् । अत उपसम्पत्तिवाक्यस्य विषयत्वेनादरणमर्थबलादेवेति वक्तव्यम् । तथा सति तौल्यान्न पर्यनुयोगावकाशः । किञ्च 'स्वेने'ति पदस्यापि ब्रह्मवाचकत्वमेव मुख्यम् । 'स्वमपीतो भवती'- त्यादौ तथा सिद्धत्वात् । अतस्तत्रापि तथा । किञ्च । नायं नियमो यद्विषयवाक्यं सौत्र- रश्मिः । पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुग्मायया मोहयन्नो । मायासङ्ख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोस्मि ॥ इति उपक्रमाज्ज्ञानमार्गीयमेयम् । पुनरपीत्यादिना जाग्रदवस्थामनु स्वाप्निकीं तामाहुर्मांण्डूकाः । धिषणा बुद्धिः । स्वापावस्थामाहुः पीत्वेति । स्वपिति स्वापं करोति । मधुरभुक्-आनन्दभुक् । तुरीयावस्थामाहुः माययेति । नोस्मान् मण्डूकान् । मायया त्रिगुणरूपया सङ्ख्यायते सम्प्रकथ्यते तन् मायासङ्ख्यम् । न तु स्वयम् । सोऽहं । नत इति । जात्यपेक्षयैकवचनम् । ज्ञानैकत्वादेकवचनं वा। ब्रह्मैव सन् ब्रह्मभावं गतः सन् । ब्रह्मभावोत्तरमेवेति । न तु तूष्णीम् । एवमप्यनुवादेन मुक्तिर्निस्सम्बोधेति चेत्तत्राहुः ब्रह्मणश्चेति । निर्विशेषेति । निःसम्बोधमुक्तिसमर्पकस्य । प्रागेवेति । उभयलिङ्गाधिकरणेष्वेव । श्रुत्यविरोधस्तु अग्रेतनश्रुत्यन्तरात् । श्रुत्यन्तरं तु । यो विश्वात्मा विविधविषयान्प्राप्य भोगान् स्वविद्वान् । पश्चात्स्वात्यान् स्वमतिविभवान् ज्योतिषा स्वेन सूक्ष्मान् ॥ सर्वानेतान् पुनरपि शनैः स्वात्मनि स्वापयित्वा । हित्वा सर्वान् विशेषान् विगतगुणगणः पात्वसौ नस्तुरीयः ॥ इति भक्तिमार्गीयमेयम् । मायाऽश्रवणेन विषादीनां नित्यत्वस्फोरणात् । विश्वात्मना स्वविद्वद्भोग- मुक्त्वा जाग्रति स्वप्ने 'अत्रात्मा स्वयंज्योतिर्भवती'ति श्रुतेः । स्वेन ज्योतिषा स्वाप्निकान् पश्चात्स्वान्यान् पश्चात्स्वान् यान् पश्चात्स्वानन्यान् प्राप्य भोगान् । सुषुप्तौ सर्वानेतानिति । स्वापयित्वा प्राज्ञः न किञ्चन संवेत्तीत्युत्तरेणान्वयः । न इति । मण्डूकान् । मण्डूकोपनिषत्त्वादन्येषामलाभाच्च । अत्र मायाऽश्रावणाच्छ्रुत्य- न्तरत्वम् । अत्रापि निःसम्बोधमुक्त्यभाव उक्तः । 'नात्मानं नापरञ्चैव न सत्यं चापि नानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥ निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभूतानां देवस्तूर्यो विभुः स्मृत' इति ॥ तत्सर्वदृक्पदेन सर्वविषयकज्ञानोक्तेः । भक्तिमार्गस्य काचित्कत्वादग्रे 'मायामात्रमिदं विश्वमद्वैतं परमार्थत' इति विश्वस्य मायामात्रत्वमुक्तम् । मक्तावाग्रहे तु । मायामात्रं- इन्द्रियमात्रम् । वैराग्यार्थमनृतं वेत्यर्थः । ये पुनरिति । शाङ्करादयः । श्रुतिस्तु छान्दोग्यसमाप्तावस्ति । तथात्वमिति । विषयवाक्यत्वम् । उपसम्पत्तीति । भावप्रत्ययान्तत्वेन पर्यायत्वम् । श्रावणादिति । छान्दोग्ये तथा । ब्रह्मति । हेतुभूतब्रह्मवाचकत्वम् । तत्रापि तथेति । 2284