सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2425, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2425

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६९ भाष्यप्रकाशः। परप्राप्तिं पुरुषार्थत्वेनावगत्य तदर्थं न प्रष्टुं प्रवृत्तौ, किन्त्वपहतपाप्मादिगुणकात्मज्ञानेन सर्व- कामप्राप्त्याद्यर्थम्, अतस्तदधिकारं हीनमवगत्य चित्तशुद्ध्यर्थं तप उपदिदेश, क्लिष्टप्रयोगेण चोक्तवान् । तत्र प्रथमे पर्याये 'दृश्यत' इत्येनेनार्षमेव दर्शनमभिप्रेतम् । तदेवोपपादितं 'अन्तर उपपत्ते'रित्यत्र । परमिन्द्रेण न बुद्धमिति देहमात्मानं बुद्ध्वा भयं ददर्श, 'अस्मिन्नन्धेऽन्धो भव- ती'त्यादि । एवं दृश्यस्याज्ञाने पुनस्तप उपदिश्य, द्वितीयेऽपि पर्याये स्वप्नसृष्टिकर्तारमुपदिदेश, 'य एष स्वप्ने महीयमानश्चरती'ति । अत्रापि 'एतं त्वेवं भूयोऽनुव्याख्यास्यामी'त्येतच्छब्देन स्वबुद्धिस्थस्यैव परामर्शात् । न त्विन्द्रबुद्धिस्थस्य । इन्द्रेण देह