अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2426, कुल 2600 में से
संदर्भ में पढ़ें१७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ७. भाष्यप्रकाशः। विजानाती'त्येवमुपदिदेश । तत्रापि सुषुप्त्यधिकरणभूतं परमात्मानं न ज्ञातवान्, किन्तु सुषु- प्त्यवस्थाकं शारीरमेव ज्ञात्वा, तत्राप्यज्ञानरूपं भयं 'विनाशमेवापीतो भवती'त्यन्तेन प्रदर्श्येन्द्रः पुनरुपससाद । तदा प्रजापतिस्तमेव खबुद्धिस्थमुपदेश्यत्वेनोपक्षिप्य इन्द्रेणावगतस्य जीवस्य सर्वकामभोगयोग्यं स्वरूपं तत्सम्पत्त्या भवतीति वक्तुं 'मघवन् मर्त्यं वा इदं शरीर'मित्या- दिना शरीरस्य दुःखदत्वम्, अशरीराणां वाय्वादीनां परं ज्योतिरूपसम्पन्नानां स्वरूपप्राप्ति- रश्मिः। खबुद्धिस्थमेव । यत्र एतत्सुप्त इति तृतीयपर्यायारम्भः । कचित्पुस्तके तथैवैतत्सुप्त इत्यादि पाठः । समस्तः सम्यग्गतः स्वरूपे । समस्तमिति पाठे प्रागुक्तार्थं स्वप्नविशेषणम् । सम्प्रसन्नः आनन्दयुक्तः । सुषुप्त्यधिकरणभूतमिति । सुषुप्तिस्तु अकामो भगवान् । एवमकामरूपसुषुप्त्य- धिकरणभूतं परमात्मानमित्यर्थः । अत्र श्रुतिः । 'स शान्तहृदयः प्रवव्राज । सहाप्राप्यैव देवाने- तद्भयं ददर्श नाहं खल्वयमेवꣳसम्प्रत्यात्मानं जानाम्ययमहमस्मीति नो एवेमानि भूतानि विनाशमे- वापीतो भवती'ति ॥ स इन्द्रः । भयमेवाहुः । नाहमित्यादिना । नो एवेमानि भूतानि जानन्ति । विनाशमेवेति । एवकार इवार्थे । अ इवेति पदच्छेदात् । विनाशमिव अपीतः प्राप्तो भवति । सुषुप्तौ ज्ञानाभावादात्मा नष्ट इवेति भावः । उपक्षिप्येति । 'नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय तꣳह प्रजापतिरुवाच मघवन्च्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाहं खल्वयं भगव एवꣳसम्प्रत्यात्मानं जानाम्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीत्येवमेव मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्य- त्रैतस्माद्वसापराणि पञ्चवर्षाणीति स हापराणि पञ्चवर्षाण्युवास तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतꣳ ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाचे'त्यनयोपक्षिप्य । स इन्द्रः। नो एवान्यत्रेति । एतस्यैव भूयोऽनुव्याख्याने हेतुरयम् । एतस्मादन्यत्र परमात्मनि नो एव खबुद्धिस्थत्वम् । एकशत- मिति । तानि इन्द्रब्रह्मचर्यवर्षाणि एकीकृतानि एकाधिकशतं संपेदुः प्राप्तानि । द्वात्रिंशत्संख्या त्रिगुणीकृता षण्णवतिः पञ्चसंख्या तत्र चेदेकाधिकशतं भवति । अस्याः संख्यायाः श्रुतिः स्वमुखेनैवै- तिह्यत्वं विधास्तुत्यर्थमाहुः । एतद्यदाहुरिति । यदेतदुक्तं तदेतदाहुः शिष्टाः । इन्द्रेणावगतस्येति । परमात्मरूपस्य । मामेवोपास्वेति परमात्मनः स्वात्मरूपसेन्द्रप्रतर्दनसंवाद उपदेशात् । तत्सम्प- त्त्येति । शरीरसम्पत्त्या । इत्यादिनेति । मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युनात्तं तदस्यामृतस्य शरीरस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यामित्यादिशब्दार्थः । अधिष्ठानं भोगाधि- ष्ठानम् । अशरीर आत्मा आत्तः । काभ्यामित्यत आह प्रियाप्रियाभ्यामिति । प्रियाप्रियाभ्यां आत्तो व्याप्तः । असशरीरस्य प्रियाप्रिये सम्भवतः । प्रियः प्रीतिविषयः संयोगे, अप्रीतिविषयो विप्रयोगे । एवं चासशरीर आत्मविशेषः । अकारो विष्णुः सशरीरः सन् प्रियाप्रियाभ्यां सुखदुःखाभ्यां आत्तो व्याप्तो वै प्रसिद्धम् । तथा च इत्यादिना शरीरस्य दुःखदत्वमित्यस्य प्रकाशस्य सुखदत्वोपलक्षकत्वा- दात्मविशेषमादायोक्तरीत्या शरीरस्य सुखदुःखदत्वम् । तदपि आत्मविशेषाय संयोगविप्रयोगदत्वम् । न च शरीरस्य दुःखदत्वमेवेति भाष्यविरोधः । श्रुत्या भाष्येप्युपलक्षणाद्दुःखदत्वमित्यंशे । अशरी- राणामिति । 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतो- ऽशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुप- सम्पद्य स्वेन रूपेणाभिनिष्पद्यन्त एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन 2288