सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2436, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2436

१८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ११. अभावं बादरिराह ह्येवम् ॥ १० ॥ मुक्तोऽपि जीवः पुष्टिमार्गेऽङ्गीकृतो भगवद्दत्तं विग्रहं प्राप्य भजनानन्दं प्राप्नोतीति सिद्धम् । अत्र प्रत्यवतिष्ठते । बादरिराचार्यो मुक्तस्य देहाद्यभावं मनुते । तत्र हेतुराह ह्येवमिति । ब्रह्मविदो हि मुक्तिरुच्यते । 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यती'त्याद्युक्त्वा, 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्ये'दित्यादिना द्वितीयज्ञाननिषेधमाह ब्रह्मविदः श्रुतिः । तथा च तस्य कामभोगवार्ता दूरतरेति, तदाक्षेप्यदेहोऽपि तथा ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ जैमिनिराचार्यस्तु मुक्तस्य पुंसो देहादेर्भावं सत्तां मन्यते । तत्र हेतुः विकल्पेत्यादि । 'ब्रह्मविदाप्नोति पर'मिति श्रुत्या ब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्व- मुच्यते । 'नायमात्मे'ति श्रुत्या तु वरणमात्रप्राप्यत्वम् । 'सोऽश्नुत' इत्यादिना च परप्राप्त्युपन्यासः क्रियते । 'इहैव समवनीयन्ते' 'ब्रह्मैव सन् ब्रह्माऽप्येती'ति च पठ्यते । एवं सति मिथो विरोधे तद्भावाद्योक्तव्याख्यानरीत्या ज्ञानमार्गीयस्य ब्रह्मज्ञानेनाक्षरब्रह्मप्राप्तिः, पुष्टिमार्गीयभक्तस्य तु 'सोऽश्नुत' इत्यनेनोक्ता पर- प्राप्तिरिति व्यवस्थितविकल्प एव श्रुत्यभिमत इति ज्ञायते । तेन, 'नायमात्मे'ति भाष्यप्रकाशः । अभावं बादरिराह ह्येवम् ॥ १० ॥ अत्रेत्यादि । असिद्धयर्थं निःसम्भोगनिरानन्दमु- क्तिवादी प्रत्यवतिष्ठत इत्यर्थः । तत्र हेतुः । बादरिरित्यादि । शेषं स्फुटम् ॥ १० ॥ एतन्मते कामाशनबोधकश्रुत्यादयः पूर्वपक्षाविश्रान्ताः जैमिनिस्तु पूर्वपक्षाविश्रान्तौ मानाभावात् ब्रह्मविद्वृत्तान्तकथनस्योभयत्र तुल्यत्वान्मार्गभेदेनाधिकारिभेदमङ्गीकृत्योभय- व्यवस्थामाह । भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ विकल्पामननादिति । विरुद्धाः कल्पाः पक्षाः विकल्पाः श्रुतिषूच्यमानाः, तेषां आमननात् आसमन्तान्मननाद् विचारात् । तथा च ज्ञानप्राप्यत्वविरुद्धं वरणैकलभ्यत्वं कामाशनविरुद्धञ्चाप्यय इति साधनयोः फलरूपयोश्च मिथो विरुद्धत्वे सति तदभावायाधिकारिभेद आस्थेय इति ज्ञानमात्रात् साधनात् ब्रह्मभावे तत्र लयः, रश्मिः । अभावं बादरिराह ह्येवम् ॥ १० ॥ निःसम्भोगेति । अर्थबलाच्छब्दोऽप्यन्यथा नेय इति मतेदृशो भवति । भाष्ये । तथेति दूरतरः ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ एवं सतीति भाष्यं विवृण्वन्ति । इति 2298