अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2437, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १८१ श्रुतिः परप्राप्तिविषयिणी । 'इहैवे' त्यादिश्रुतिस्तु मर्यादामार्गीयविषयिणीति मन्तव्यम् । एवं सति पुष्टिमार्गीयस्य भोगसाधनात्मकविग्रहवत्त्वं निष्प्रत्यूहं सिध्यति। 'तत् केन कं पश्ये' दित्यादिना तु ब्रह्मज्ञानसामयिकीं व्यवस्थाम्राह, न तु तदुत्तरकालीनपरप्राप्तिसामयिकीमिति किमनुपपन्नम् ॥ ११ ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥ ब्रह्मणा सह सर्वकामानशनप्रयोजकं शरीरं शरीरत्वस्य भूतजन्यत्वव्याप्यत्वा- त्तदभावेनाशरीररूपम्, तद्भोगायतनत्वेन शरीररूपमपीति बादरायण आ- चार्यो मन्यते । अत्र हेतुः, अत इति । तथाविधश्रुतेरित्यर्थः । तथाहि । 'भूमैव विजिज्ञासितव्य'इत्युक्त्वा, तत्स्वरूपमाह 'यो वै भूमा तत्सुख'मित्युपक्रम्य, भाष्यप्रकाशः । वरणसहकृतात्तु तल्लाभः स्वाधीनतया स्वरूपानुभावात्मक इति श्रुत्यभिप्रेतस्य व्यवस्थितविकल्पस्य सम्यग्विचारात् तथेत्यर्थः । शेषं स्फुटम् ॥ ११ ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥ भगवान् व्यासस्तु जैमिन्युक्त- व्यवस्थां बादर्युक्तं द्वैतदर्शननिषेधं चाङ्गीकृत्य जैमिन्युक्तात् कञ्चिद्विशेषमाहेत्याशयेन सूत्रं व्या- कुर्वन्ति ब्रह्मणा सहेत्यादि । एवमधिकारिभेदमार्गभेदाभ्यां मुक्तस्य देहसत्तायास्तदभावस्य च प्राप्तौ यस्य शरीरं प्राप्तम्, तत् कीदृशमित्यपेक्षायां तच्छरीरं उभयविधम्, केनचिद्धर्मेण शरीररूपम्, केनचिद्धर्मान्तरेण अशरीररूपमित्येवं द्विविधमिति बादरायण आचार्यो मन्यत इत्यर्थः । हेतुबोधिका श्रुतिः कुत्रास्तीत्याकाङ्क्षायामाहुः तथाहीत्यादि । तथा तत्प्रकारकं हि यतो हेतोः, 'भूमैव विजिज्ञासितव्य' इत्याद्युक्त्वा तस्य शरीरस्य स्वरूपमाह । तथा च छान्दोग्ये भूमविद्यायामस्तीत्यर्थः । ननु तत्र भूम्नः स्वरूपमुच्यते, न शरीरस्येत्यत आहुः यो वा इत्यादि । सत्यं भूम्नः स्वरूपमुच्यते, तथापि तस्य सुखस्वरूपत्वमुपक्रम्याग्रे सुखरूपतया तदुच्यते, इत्येवं रश्मिः । साधनयोरित्यादि । वरणसहकृतादिति । अनुग्रहजपुष्टिभक्तिरूपात्साधनात् । 'वशे कुर्वन्ति मां भक्त्ये'ति वाक्यादाहुः । स्वाधीनतयेति । तथा च एवमपि उपन्यासादिति सूत्रभाष्यं भगवदा- नन्दमश्नुत इति । तथेति । ज्ञायत इत्यर्थः । शेषमिति । तेन नायमात्मेत्यादि भाष्यं स्फुटम् । तथाहि । मर्यादामार्गीयविषयिणीति । मर्यादामार्गीयसद्योमुक्तिविषयिणी । ब्रह्मज्ञान- सामयिकीमिति । गीताष्टादशाध्यायोक्तसात्त्विकज्ञानसामयिकीमिति ॥ ११ ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥ ब्रह्मणा सहेत्यादीति । भूत- जन्यत्वेति । भूतजन्यं शरीरत्वात् । देवदत्तशरीरवत् । तदभावेन भूतजन्यत्वाभावेन । तदिति भिन्नं पदम् । एवमपीति । बादरिरथार्थी अधिकारी । जैमिनिरार्चोधिकारी- त्यधिकारिभेदः । अधिकारभेदे तत्कृतो मार्गभेदः ताभ्याम् । केनचिदिति । भोगायतनत्वेन धर्मेणेत्यर्थः । केनचिदिति । भूतजन्यत्वाभावेन धर्मान्तरेण । अशरीररूपमित्यत्राभावज्ञानं शरीररूपप्रतियोगिज्ञानाधीनमिति भाष्यविपरीतक्रमः । भाष्यं तु सूत्रे अनुरूद्धेत्यदोषः । सूत्रयोरतु शरीराभावः । द्वितीये तु शरीराभावाभावरूपं शरीरमित्यदोषः । तदुच्यते । भूमस्वरूपमुच्यते इत्येवं 2299