अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2452, कुल 2600 में से
संदर्भ में पढ़ें१९५ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ४ सू० १६. भाष्यप्रकाशः। शाङ्करास्तु, मुक्तस्यानेकशरीरावेशलक्षणैश्वर्याभ्युपगमे, 'तत् केन कं विजानीया'दि- त्यादिश्रुतिविरोधशङ्कायां, 'तत्केन कम्', 'सलिल एक'इत्यादौ यद्विशेषविज्ञानवारणं तत् सुषुप्तिकैवल्यावस्थयोरन्यतरापेक्षम् । कुतः । आविष्कृतं हि यतो हेतोस्तत्रैव तदधिकार- वशादाविष्कृतम्, 'यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यती'त्यनेन । 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ती । यत्र त्वस्य सर्व- मात्मैवाभू'दित्यनेन च प्रकटीकृतः । इदं तु सगुणविद्याविपाकस्थानं स्वर्गादिवदवस्थान्त- रम्, यत्रैतदैश्वर्यमुपवर्ण्यते, अतो न दोष इत्येवं सूत्रार्थमाहुः । तेषामियं सम्पत्त्यवस्थातो हीनावस्थेत्यभिप्रायः । तदेतदन्ये न क्षमन्ते । तथाहिभास्कराचार्या रामानुजाचार्याश्च अत्र सम्पत्तिपदेन 'वाङ् मनसि सम्पद्यत' इत्यादिनोक्ता मरणावस्था परामृश्यते । अतः सुषुप्तौ मरणावस्थायां च विशेषविज्ञानवारणम् । 'यत्र सुप्तः', 'एतेभ्यो भूतेभ्य' इति श्रुतिभ्यां यतस्तत्रैव तदधिकारवशा- दाविष्कृतम् । तेन शरीरेन्द्रियविषयनिबन्धनं यद्विशेषविज्ञानं तदेव वार्यते, न तु परं भावं प्राप्तस्य विद्याकर्मसामर्थ्यात् सर्वविषयं सामान्यज्ञानमाविर्भूतं तन्न वार्यत इत्यदोषः । यत इन्द्रप्रजापतिसंवादे एव सुषुप्तौ निःसम्बोधत्वमुक्त्वा, अग्रे मुक्तमधिकृत्य, स वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोक' इति सर्वज्ञत्वकथनादिति । अस्मन्मते रश्मिः। ग्रन्थिश्छिद्यन्ते सर्वसंशया' इति श्रुतेश्च भगवदीयत्वेपि युक्तशब्दात्तमप् न कृतः । लीलानां मुक्तित्वे- ऽपि विविधभावाभावात् । स्वाप्ययस्वाम्योक्तभोगाभावमालोच्याहुः । एवमनेनेति । स्वाप्ययसाम्य- द्योतकप्रकारेणापि । 'अरूपवदेव ही'तिसूत्रोक्तैकदेशिमते मुक्तिफलस्वरूपं विचारितं भवति । न्यूनतास्य- निग्रहस्थानप्रहाणादेवकारः । न तु तदतिरिक्तं विचारितमिति । 'केन' कमिति । केनेन्द्रियेण कं विषयं पश्येदिति केन कं पश्येदित्यस्यार्थः । 'सलिल एको द्रष्टेति' श्रुतिः । विशेषेणेन्द्रियविषयरूपेण यद्विज्ञानं तस्य वारणम् । हिर्हेतावित्याशयेनाहुः । यतो हेतोरिति । तत्रैवेति । स्वाप्ययसम्पत्त्योरन्य- तरस्मिन्नेव । न त्वन्यत्र । यत्र सुप्त इति यस्यामवस्थायां सुप्तः । यत्र त्वस्येति । यत्र सम्पत्तौ त्वस्य मृतसमुत्थितस्य । सगुणविपाकेति । अनेकशरीरावेशे ऐश्वर्यधर्मे सति निर्गुणत्वं भविष्यतीति नि- र्गुणत्वप्रागभावविषयिप्रतीतिर्भवतीति सगुणविपाकस्थानम् । वृद्धिस्थानमपक्षयस्थानम् । तदनु । न दोष इति । मुक्तस्यानेकशरीरावेशप्रतिपादिकायाः स एकधेत्यादिश्रुतेस्तत्केन कमित्यादिश्रुतेश्च न विरोधरूपो दोष इत्यर्थः । तेषामियमिति । शाङ्कराणामियं सगुणविपाकावस्था । तत्रैवेति । स्वाप्ययसम्पत्त्योरन्यतरस्मिन्नेव । न तु परमिति । शरीरेन्द्रियविषयनिबन्धनरहितकं विशेषविज्ञानं सर्वज्ञत्वलक्षणं भावम् । वार्यत इति । तत्केन कमित्यादिश्रुत्या । अदोष इति । श्रुतिविरोधरूपो दोषो न । यदिति । अव्ययम् । यत इत्यर्थः । इन्द्रेति । छान्दोग्येऽन्ते वर्तते । स वा एष इति मुक्तः । चक्षुषेति । करणत्वे कामानिति कर्मत्वेन भेद उक्तः । य एते इति ये एते कामा ब्रह्मलोके सङ्कल्पमात्रेण लभ्यास्तान् सर्वान्कामान्पश्यन्निति सर्वज्ञत्वकथनम् । शाङ्करोक्तेति 'ते तु ब्रह्महृदे नीता मग्नाः कृष्णेन चोद्धृता' इति पञ्चाध्याय्यां सुबोधिनी । एताभ्यां श्रुतिभ्यां 'न तद्भाती'ति 2314