अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2451, कुल 2600 में से
संदर्भ में पढ़ेंयथा प्राकृतान् गुणानङ्गीकुर्यात्, अतो निर्गुणमेव सदा सर्वत्र भगवद्रूपमिति मन्तव्यम् । एवं सति, 'तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' इति छान्दोग्यश्रुतेः प्रस्वापदशायां न कश्चित् ब्रह्माभाति, तच्च न कश्चनेति तद्विष- यिणी निषेधिका श्रुतिः, 'ब्रह्मविदाप्नोति पर'मिति श्रुत्युक्तपरब्रह्मप्राप्तिदशाविष- यिणी भोगबोधिका सेति न विरोधगन्धोपि । एतदेवाह । स्वाप्ययः प्रस्वापः, 'स्व- मपीतो भवति तस्मादेनं स्वपितीत्याचक्षत' इतिश्रुतेः । सम्पत्तिः ब्रह्मसम्पत्ति- रुक्तरीत्या पुष्टिमार्गीयो मोक्षः । एतयोरन्यतरापेक्षमुभयश्रुत्युक्तमित्यर्थः । भगव- त्कर्तृकभोगस्य लीलारूपत्वात् तस्याश्च, 'लोकवत्तु लीलाकैवल्य'मित्यत्र मुक्तित्वेन निरूपणात् तत्प्राप्तेः सम्पद्रूपत्वं युक्ततरमिति हिशब्दार्थः ॥ १६ ॥ इति चतुर्थाध्याये चतुर्थपादे चतुर्थं प्रदीपवदित्यधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः । तथा चात्रेदं सम्पद्यते । आद्ये प्रकारे यद्यपि, 'तद्यथा प्रियया स्त्रिये'त्यादिना सम्परिष्वङ्गो ब्रह्मकृतो जीवस्योक्तः, तथापि, 'न बाह्यं किञ्चन वेद नान्तर'मिति ज्ञानाभावशेषत्वेनोक्त इत्यस्थूलादिश्रुतौ सकलप्रापञ्चिकधर्माभावकथने प्रापञ्चिकभोगाभावोऽप्युक्तः । द्वितीयप्रकारे तु ज्ञानसद्भावाद् भोग इति विरोधाभावात् स्वरूपे सगुणनिर्गुणभेदकल्पनमसङ्गतमित्यर्थः । तदे- तभिगमयितुं हिशब्दस्यार्थमाहुः भगवत्कर्तृकेत्यादि । एवमनेनापि प्रकारेण फलस्वरूपमेव विचारितं भवति । रश्मिः । सत्यम् । इति पदानि । एतस्माद्ब्रह्मणो नहि उक्तो भावो व्यतिरिक्तो नहि इति न । मूर्तामूर्तत्वाभाव एतस्मादन्य इत्युक्तम् । अन्यत्, निषिद्धान्मूर्तामूर्तात् अन्यत् त्वमिति । अधिकं यत्, इत्यर्थः । अधिकं तु भेदनिर्देशादिति सूत्रात् । किं तत्त्वं नामैकदेश इत्यत आहुः । प्राणा वै सत्यमिति तेषां प्राणानां सम्बन्धि एष गूढ आत्मा सत्यमिति । प्राकृतानिति । तामसप्रकरणादौ तु द्वितीयस्कन्धो- क्तात्मगुणानङ्गीकृत्य सुबोधिनीति ज्ञेयम् । निर्गुणमेवेति । एवकारेण सगुणव्यवच्छेदः क्रियते । मायया दर्शितानां मिथ्यात्वादन्येषां धर्मानामभेदात् । सर्वत्रेति । अन्तर्यामिब्राह्मणेऽपि । आभासोक्तं विरोधं परिहरन्ति स्म । एवं सतीति । गुणोङ्गीकारं विनापि कार्यक्षमत्वे सति । छान्दोग्येति । दहरविद्यास्थायाः । अर्थस्तु, तत् तत्र विद्यमानानामेवालाभे दृष्टान्तः । यथा हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तमक्षेत्रज्ञाः निधिक्षेत्रानभिज्ञाः निधेरुपरि उपरि सञ्चरन्तोऽपि निधिं न विन्देयुः । दार्ष्टान्तिकमाह । एवमेव यथा दृष्टान्तमेव । सर्वा अविद्यावत्यः अहरहः प्रत्यहम् सुषुप्तिकाले, एतद् हार्दाकाशाख्यं ब्रह्मैव लोकं ब्रह्मणो लोकं वा 'अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तम'मिति वाक्यात् यन्त्योपि प्राप्नुवन्त्योपि न विन्दन्ति न लभन्ते इति । विन्दन्तीत्यत्र परस्मैपदं चान्द- सम् । प्रकृते अस्थूलेति । अक्षरब्राह्मणेऽस्ति । भाष्ये । स्वमपीतो भवतीति । स्वं अपि गतो भवतीत्यर्थः । सम्पत्तेर्मार्गत्रयसाधारण्यात् व्यवच्छिन्दन्ति । उक्तरीत्येति । द्वादशाहसूत्रभाष्योक्त- रीत्या । प्रकृते । भवतीति । आविष्कृतं भवति । आद्य इति । सुषुप्तौ । द्वितीय इति । सम्पत्तौ भगवत्कर्तृकेत्यादीति । युक्ततरमिति । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इति श्रुतेः । 'भिद्यते हृदय-