अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2460, कुल 2600 में से
संदर्भ में पढ़ें२०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० १९. विकारवर्ति च तथाहि स्थितिमाह ॥ १९ ॥ नन्वेवं सति 'श्वस्त्वद्गेहमायास्य' इति प्रभुणोक्ते तदाशाया तत्स्थितिनौप- पद्यते । नित्यत्वाल्लीलायास्तस्य कालस्य तदागमनस्य च तदापि वर्तमानत्वात् । तथा प्रभुक्तिरपि नोपपद्यत इत्याशङ्क्य समाधत्ते । इह भगवल्लीला प्रकृतिः, तद्विरुद्धोऽर्थो विकार इत्युच्यते । तन्न न वर्तते तज्ज्ञानं तादृशं च भवति । भाष्यप्रकाशः। विकारवर्ति च तथाहि स्थितिमाह ॥ १९ ॥ एवं श्रुतिविरोधं परिहृत्य लौकिक- विरोधं परिहरतीत्याशयेन सूत्रमवतारयन्ति नन्वेवं सतीत्यादि । एवं सतीति तत्तल्लीला- तत्तद्देशतत्तत्कालतत्तद्भक्तदेहानां नित्यत्वे सति व्याकुर्वन्ति इहेत्यादि । इहेति भगव- त्सम्बन्ध्यर्थविचारे, भगवल्लीला प्रकृतिः, रसात्मककृतस्तद्गुणवत्त्वात्, अनुकृत्यधिकरण- सिद्धकारणत्वाद्वा । तद्विरुद्धोऽर्थो लौकिकः, स हि विकार इत्युच्यते तत्प्रतिकृतिभूत- यत्किञ्चित्तद्गुणवत्त्वात् । कार्यत्वाद्वा । तन्न लौकिके विकारभूतेऽर्थे न वर्तते, तत् ब्रह्मणा सह भोगकरणमत आधिकारिकमण्डलस्थं सर्वं तदन्तःपातिज्ञानं च विकारवर्ति तादृशं तत्समानाकारं च भवति अत एवेतः पूर्वं 'आत्मत आशा आत्मत आविर्भावातिरोभावा' वित्यादि भावितमन्यथा तन्न वदेत् । तदेतदत्र सर्वं चकारेण सूच्यते । तथा च, 'स एकधा भवती'ति श्रुतिबलेनेकस्य भक्तस्य यान्यनेकानि रूपाण्यङ्गीकृतानि, तानि योगिकायव्यूहवन्न नानादेशवर्तीनि, किन्तु यथैकस्मिन्नेव भगवत्स्वरूपे विद्यमानानि प्रद्युम्नादिव्यूहरूपाणि तत्कार्ये रश्मिः। विकारवर्ति च तथाहि स्थितिमाह ॥ १९ ॥ लौकिकेति 'लोकवत्तु लीला- कैवल्यमि'ति सूत्राल्लौकिकवत्प्रतीयमानधर्मविरोधं परिहरतीत्यर्थः । तत्तल्लीलेति । पूर्वसूत्र उपपादि- तम् । पूर्वतन्त्रे यत्र सकलाङ्गोपदेशः सा प्रकृतिरिति प्रकृतिलक्षणादाहुः । रसात्मकेति । उत्तरतन्त्रविचारेण प्रकृतिलक्षणमाहुः । अनुकृतीति । सर्वानुकरणार्थं कारणं तेजसः । 'न तद्भासयते सूर्यो न शशाङ्को न पावकः' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामक'मिति च सार्धवाक्ये । तत्त्वादित्यर्थः । तथा च प्रकृतिः स्वरूपम् । 'प्रकृतिमगन् किल यस्य गोपवध्व' इत्यत्र तथाव्याख्यानात् । तद्विरुद्ध इति भाष्यविवरणम् । तद्वि- रुद्ध इत्यादि । लौकिक इति लौकिकवत् । विकारत्वस्य त्रिषु सत्त्वात्सामान्ये नपुंसकम् । विकारजात- माहुः । तत्प्रतिकृतीति तस्याः प्रकृतेः प्रतिकृतिभूतम् । तद्गुणवत्त्वात् प्रकृतिगुणवत्त्वात् । कार्य- त्वादिति प्रकृतेरेव । तन्न न वर्तत इति भाष्यं विवृण्वन्ति स्म । तन्न लौकिकेति । किं न वर्तत इत्याकाङ्क्षायां तज्ज्ञानमित्यादिभाष्यं विवृण्वन्ति स्म । तद्ब्रह्मणेति । तज्ज्ञानमित्यत्र तत्पदानुवृत्तिरत्र ज्ञेया । तदन्तःपातीति तस्याधिकारिकमण्डलस्थस्य सर्वस्यान्तःपाति तदन्तःपाति । तादृशमित्यस्यार्थः । तत्समानाकारमिति लौकिकविकारसमानाकारं लोकवदित्यर्थः । अत एवेति लौकिकविकार- समानाकारत्वादेव । इतः पूर्वमिति । 'सर्व१ह पश्यः पश्यती'त्यादि श्रुतेः पूर्वम् । भावितमिति । लौकिकविकारसमानाकारमाशादिकं श्रावितम् । अन्यथेति । आधिकारिकमण्डलस्थज्ञानाशादेलौकिक- विकारसमानाकारत्वाभावे लौकिकत्वे च नित्यलीलायां तज्ज्ञानाशादिकम् । तदेतदिति । तज्ज्ञानं तादृशमित्यादि भाष्योक्तम् । यत्स्वरूपमित्यादि भाष्यं विवृण्वन्ति स्म । तथा चेत्यादि तादात्म्या- 2322