अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2462, कुल 2600 में से
संदर्भ में पढ़ें२०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४, अ० ५ सू० २०. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ न च लौकिकयुक्तिविरोधोऽत्र बाधकत्वेन मन्तव्यः, किन्तु साधकत्वेन यतः प्रत्यक्षानुमाने श्रुतिस्मृती अपि लौकिकयुक्त्यप्रसारेणालौकिके भगव- त्सम्बन्धिन्यर्थेऽन्यथाभावनं निषेधति, 'नैषा तर्केण मतिरापनेया' । 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' । 'अलौकिकास्तु ये भावा न तांस्तर्केण योजयेत्' । श्रीभागवते च 'न हि विरोध उभयं भगवत्यपरिगणित- गुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्क- शास्त्रकलिलान्तःकरणाशयदुरवग्रहवादिनां विवादानवसर' इत्यादिवाक्यैर- चिन्त्यानन्तशक्तिमत्त्वेन भगवत्स्वरूपस्यैव परमफलत्वं प्रदर्श्यते । किञ्च । 'ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरी'ति ऋग्वेदे पठ्यते । किञ्चित्पाठभेदेन यजुःशा- खायामपि । ता तानि वास्तूनि वां गोपीमाधवयोः सम्बन्धीनि गमध्यै प्रसाद- भाष्यप्रकाशः। दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ भगवत्सम्बन्धिपदार्थानां युक्त्यगम्यत्वरूपं पूर्वो- क्तमर्थमेव दृढीकर्तुं सूत्रान्तरं पठतीत्याशयेन सूत्रं व्याकुर्वन्ति न चेत्यादि । भाष्यमत्र निगद्व्या- ख्यातम् । अत्र 'नैषा तर्केणे'ति काठकश्रुतेर्जीवप्रश्नोत्तरवर्तित्वेन तया भगवत्सम्बन्धिनामर्थानां तर्कागोचरत्वसाधनं न युक्तमित्याशङ्क्य, ब्रह्मप्रकरणास्थायाः 'परास्य शक्ति'रिति द्वितीयायाः श्वेताश्वतरश्रुतेरुपन्यासः । 'अलौकिकास्त्वि'त्यस्याः स्मृतेः प्रसिद्धत्वेन विषयान्तरे चारि- तार्थ्यमाशङ्क्य, श्रीभागवतषष्ठस्कन्धीयस्य 'न हि विरोध'इति वाक्यस्योपन्यासः । एवमेतैः प्रमाणैर्लीलाया अलौकिकत्वं निगमयित्वा तन्मुखेनापि भगवतः फलत्वनिगमनाय किञ्चेत्या- दिना शाखाद्वयस्थश्रुत्युपन्यासः । ऋक्शाखास्थश्रुतेर्यास्केन सूर्यकिरणपरतया निर्वचनात् तदर्थ- मपनिरासाय यजुःशाखापाठसारणम् । तेन यास्कोक्तस्य शृङ्गादिपदनिरुक्तमात्रार्थत्वम्, न तु रश्मिः। दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ निगदेति । श्रुतिस्मृती इति । 'तं त्वौपनि- षद्'मिति श्रुत्याधोक्षजे प्रत्यक्षादेरसङ्गमादेवं व्याख्यातम् । ननु तर्हि स्मृतेरौपनिषदत्वाभावात्स्मृतिर्न व्याख्यानमिति चेन्न । गीतास्मृतिषु इति श्रीमद्भगवद्गीतासूपनिषत्स्विति उपनिषत्पदप्रयोगादुप- निषत्त्वात् । श्रवणं चार्षमिति प्रत्यक्षमूलत्वाज्जन्यजनकभावसम्बन्धो लक्षणा प्रत्यक्षपदस्य श्रुतौ । अनुमीयते उत्सन्नप्रच्छन्नवेदशाखा येन तदनुमानं स्मृतिरिति वेदान्ते योगमात्रादरणात् । एवं निगदेन भाष्यव्यक्तवचनेन व्याख्यातं व्याख्यातप्रायम् । बहुवाक्योपन्यासे गौरवं मन्यमानास्त- त्स्वारसमाहुः । अत्र नैषेति । विषयान्तरेति विषयोऽधोक्षजः । ततोन्यद् विषयो नटादौ प्रसिद्धं तद्विषयान्तरं तस्मिन् । शाखाद्वयेति । ऋग्वेद आश्वलायनशाखा । एवं यजुःशाखापि । यास्केनेति निरुक्तकर्तृणा । सूर्येति । गावः किरणा उच्यन्त इत्येवं व्याख्याताः । तदर्थेति सूर्यकिरणार्थमपनिरासाय । यजुःशाखेति किञ्चित्पाठभेदेनेत्यादि भाष्येण तथा । पाठभेदस्तु भूरीत्यृग्वेदे । भूरैरिति यजुःशाखायाम् । यास्कोक्तस्येति निर्वचनस्य । शृङ्गादीति । शृङ्गादि ।