अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2463, कुल 2600 में से
संदर्भ में पढ़ेंस्त्वेन प्राप्तुमुश्मसि कामयामहे । तानि कानीत्याकाङ्क्षायां गूढाभिसन्धिमुद्घाटयति, यत्र श्रीगोकुले गावो भूरिशृङ्गा बहुशृङ्गा रूपप्रभृतयो वसन्तीति शेषः । ग्राम्या- रण्यपशुपलक्षणार्थमुभयोरेव ग्रहणम् । अत्राह भूमावेव तदुरुगायस्य बहुगीय- मानस्य वृष्णः भक्तेषु कामान् वर्षतीति वृषा तस्य पदं स्थानं वैकुण्ठम्, ततोऽपि परममधिकम्, अत्र विचित्रलीलाकरणात् । भूरि यमुनापुलिननिकुञ्ज- गोवर्धनादिरूपत्वेन बहुरूपम् । तथा च तत्रत्यानि तानि कामयामह इति वाक्यार्थः सम्पद्यते । एतेन लीलासम्बन्धिवस्तूनां यत्र फलत्वेन प्रार्थनम्, तत्र तल्लीलाकर्तुः परमफलत्वे किं वाच्यमित्याशयो ज्ञाप्यते । 'अथ ह वा व तव महिमाऽमृतसमुद्रविप्रुषा सकृल्लीढया स्वमनसि निष्यन्दमानानवरतसुखेन वि- स्मारितदृष्टश्रुत