अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2467, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २११ ब्रह्म प्राप्तस्य निर्दोषत्वादावृत्तिहेत्वभावात् प्रपञ्चेऽनावृत्तिः सम्भवति । तादृशं प्रतीश्वरेच्छापि न तथा भवितुमर्हति । 'ये दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' इति भगवद्वाक्यात् पर- प्राप्तिरूपत्वाच्च भोगस्य न नाशसम्भावना । किञ्च यत्रैकस्यैव भक्तस्य देशकाल- भेदेनानेकविधलीलासम्बन्धित्वेऽपि तत्तल्लीलासम्बन्धित्वमनश्वरमुच्यते, तन्न सर्वथा तदभावः कथं वक्तुं शक्यो ब्रह्मणापि । अपरञ्च । कालसाध्यो हि नश्वरः स्यात् । न हि पुरुषोत्तमे कालः प्रभवितुं शक्नोति । 'न यत्र कालोऽनिमिषां परः प्रभु'रित्यादिवाक्येभ्यः । तथा च ज्ञानमार्गीयभक्तिमार्गीययोरनावृत्तौ तुल्यत्वेऽपि फलप्राप्तौ बैलक्षण्यात् पूर्ववाक्येन भक्तानामाहाना Cyclical text repetition/variant: भक्तानामाहानावृत्तिम्, उत्तरवाक्येन ज्ञानि- नामिति ज्ञायते । न च फलप्रकरणान्तेऽनावृत्त्युक्तेः संसाराभाव एव जीवस्य परमं फलमित्याचार्याभिप्रायो ज्ञायत इति वाच्यम् । ब्रह्मविदः परप्राप्ति फलत्वे- नोक्त्वा तत्स्वरूपस्य सर्वकामभोगत्वेन श्रुत्या निरूपणात् । स च स्वस्वाधिकारा- नुसारेण निवेदितार्थाङ्गीकाररूप एवेति ज्ञेयम् । तेन स एव परमं फलम् । अना- वृत्तिस्त्वाार्थिकी, परन्त्वावृत्तौ सम्भवत्यां परमफलत्वं नोपपद्यत इति ज्ञानदुर्ब- लशङ्कानिरासायेयमुक्ता । भाष्यप्रकाशः। गन्तव्येत्यर्थः । ननूभयव्यामोहसूत्रे भक्तव्यामोहेच्छापि क्वचिदुक्तत्वात्तादृशेच्छया कदाचिदावृत्तिः स्यादिति शङ्कायामाहुः तादृशं प्रतीत्यादि । तथा च ये सर्वात्मभावप्रपत्तिरहिता उक्तभोगा- त्मकस्वरूपानुभवरहिताश्च तान् प्रत्येव तथेच्छेति, नात्र तत्सम्भावनापीत्यर्थः । समूलकाषमा- वृत्तिशङ्कानिवृत्त्यर्थं कैमुतिकेनापि तदभावं साधयन्ति किञ्चेत्यादि । ननु लीलायां देशकाल- सम्बन्धस्य पूर्वमुक्तत्वाल्लीलानित्यत्वोपपादनमात्रेण कथं शङ्कायाः समूलकाषं निवृत्तिरित्यतस्तत्र कालसांसामर्थ्ये प्रमाणमाहुः अपरं चेत्यादि । एवं लीलायाः स्वरूपानुभवस्य च नित्यत्वमुपपाद्य सिद्धमाहुः तथा चेत्यादि । ज्ञानमार्गीयफलस्तोकरूपमाशङ्क्य समादधते न चेत्यादि, इयमुक्तेत्य- न्तम् । स चेति भोगश्च । स एवेति उक्तरीत्यानुभूयमानः पुरुषोत्तम एव । आर्थिकीति । परप्रकाशनसामर्थ्याल्लिङ्गात्परप्राप्तिरूपवाक्यार्थबलेन प्राप्ता । तथा च श्रुत्या समर्पितायाः परप्राप्ते- रेव मुख्यत्वात्तत्रैवाचार्याभिप्रायः न तु लिङ्गिक्यामनावृत्तावित्यर्थः । यद्यपि द्विरुक्तिः समाप्ति- रश्मिः। इत्यादि । लिङ्गं शब्दस्य सामर्थ्यमिति पूर्वतन्त्रे । तादृशेति भक्तव्यामोहेच्छया । सर्वात्मभा- वेति । सर्वात्मभावेन शरणरहिताः । तथेच्छा व्यामोहेच्छा । नात्र तदिति नात्र भक्तिमार्गे तस्या आवृत्तेः सम्भावना । तथा च भाष्ये । तांस्त्यक्तुमुत्सहे इत्यस तान् भक्तान् त्यक्तुं भावर्तितुं उत्सह इत्यर्थः । अपि तु नेति काकुः । समूलकाषमिति, मूर्धन्यषकारान्तम्, कष हिंसायाम् । भ्वा. प. से. 'निमूलसमूलयोः कष' इति सूत्रेण णमुल, समूलकाषं कषति, कर्मणीत्वेव, कर्मणी- त्युपपद इत्यर्थः, द्वीपिर्न समूलकषभावं हिनस्तीत्यर्थः । प्रकृते तु समूलकाषमावृत्तिशङ्कानिवृत्त्यर्थम् । भाष्ये । तदभाव इति अनश्वरं लीलाभावः । प्रकृते । तदभावमिति भावृत्त्यभावम् । तथा चेत्यादि । पूर्ववाक्येनेति अनावृत्तिः शब्दादिति पूर्ववाक्येन । उत्तरेणेति द्वितीयेन तेन । ज्ञायत इति कर्ममार्गेण ब्रह्ममुक्तावप्येकदेशविकृतन्यायेनावृत्तिरेवेति ज्ञायत इत्युक्तम् । उक्तरीत्येति प्रदीपाधिकरणोक्तरीत्या । लैङ्गिक्यामिति लैङ्गिन्त्याम्, परप्रकाशनसामर्थ्य 2329