अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2470, कुल 2600 में से
संदर्भ में पढ़ें२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २१. भाष्यप्रकाशः। ग्रहत्वस्योपासनविध्यगोचरत्वादुपासके तदक्रतुत्वस्य समर्थिततया अतत्क्रतुत्वस्यैव तत्रापि हेतुत्व- मुक्तप्रायमेवेति वाच्यम् । 'मनोमयः प्राणशरीर' इति हार्दोपासनवाक्ये 'सर्वकर्मे'ति विशेषणस्य सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य 'स सर्वकर्मा स हि सर्वस्य कर्ते'तिश्रुतेरित्येवं शङ्कराचार्यैरेव व्याख्याततया निरवग्रहत्वस्य विध्यगोचरतया वक्तुमशक्यत्वात् । न चोपासनानु पुरुषस्य विध्यधीनत्वेनाखातन्त्र्यात् फलदशायां तथात्वमिति युक्तम् । पूर्वावस्थाधर्मस्य तदानी- मुपगमे बद्धत्वस्यापि तदा प्राप्त्यापत्त्या मुक्तिविप्लवस्यैवापत्तेः । यच्च खातन्त्र्ये प्रातिभत्वप्रस- ङ्गादित्युक्तम्, तत्र नवनवोन्मेषशालिनी बुद्धिः प्रतिभा, तत्सम्बन्धित्वमिति यदि, तदा [L