अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2471, कुल 2600 में से
संदर्भ में पढ़ेंनीयम्। 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुत्या तादृशस्य फलस्य ततो व्यभिचारात् । 'यथा क्रतु'रिति पुरुषविशेषणबोधके पदे प्रकारांशे पुरुषाधिकारस्यापि निविष्टत्वात् समत्वाद्याकाङ्क्षायाश्च, 'तेनार्हति ब्रह्मणा स्पर्धितुं क' इति, 'उषति ह वै स तं योऽस्मात् पूर्वो बुभूषती'ति श्रुतिभ्यां निषिद्धत्वेन तादृशोपासनेऽधिकारस्य निवृत्तेश्च । न चायमेव समाधिः शाङ्करेऽपि मतेऽस्त्विति वाच्यम् । तन्मते निर्गुणस्य रूपस्य सर्वाभ्यधिकत्वेन सगुणेऽभ्यधिकराहित्यभावेनाधिकसाहित्ये प्राप्ते उक्तरीत्या समसाहित्यस्यापि वक्तुं शक्यतया तद्राहित्यस्यापि दुरुपपादत्वेनैतच्छ्रुतिविषयता- यास्तत्र वक्तुमशक्यत्वात्। समाभ्यधिकनिषेधावधिकतया निर्गुणबोधकत्वे च सगुणे समसाहित्यस्यै- देकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति द्वितीयाध्यायसूत्रे पूर्वमीमांसायां वाक्यलक्षणम् । 'अथ खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती'ति द्वितीयं वाक्यम् । 'स क्रतुं कुर्वीते'ति तृतीयम् । अग्रे 'मनोमयः प्राणशरीर' इत्यादि क्रतुस्वरूपम् । तत्र मनोमय- वाक्योक्तोपासकस्येत्यर्थः । तथात्वापत्तयेति ब्रह्मणो मननोपदेशे मननरूपोपासनायां सर्वकर्मेति- विशेषणस्यापि सत्त्वेन जीवन्मुक्तदशायां संशयाभावरूपे फले स्वातन्त्र्यापत्त्या इत्यर्थः । जगद्व्यापारेति जगद्व्यापारो जगज्जन्मादिकर्तृत्वलक्षणस्तत्सापत्तिः । स्वातन्त्र्ये निरङ्कुशजगत्कर्तृत्वस्य नियतत्वात् । 'स्वतन्त्रः कर्ते'ति पाणिनीयसूत्रादित्यर्थः । तादृशस्येति जगद्व्यापाररहितस्य 'यस्य स्यादद्धा न विचिकित्सास्ति' इति तत्रोक्तश्रुत्युक्तसंशयाभावरूपस्य फलस्य । तत इति समाभ्यधिकजगद्व्या- पारसहितप्रपञ्चाद्व्यभिचारात् । व्यभिचारोत्र समाभ्यधिकफलवत्त्वाभावाभावस्य । जगद्व्यापारसहित- प्रपञ्चत्वासमानाधिकरण्यं व्यभिचारस्तादृशफले । 'यथा क्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्ये'ति छान्दोग्ये । प्रकारांश इति थाल् प्रत्ययार्थः प्रकारस्तदंशे । अधिकारस्यापि प्रकारत्वान् निविष्टत्वं तस्मात् । समत्वादीति । आदिनाधिकत्वम् । स्पर्धितुमिति स्पर्ध सङ्घर्षे । सङ्घर्षः पराभिवेच्छा पराभवेष्टुम् । क इति न कोपीति । समत्वाकाङ्क्षाया निषिद्धत्वम् । उषति उष् दाहे दहति । स आत्मा । बुभूषतीति भवितुमिच्छतीति बुभूषति भू सत्ता- यामिच्छार्थे सन् सन् द्वित्वम् । अनयाधिक्याकाङ्क्षाया निषिद्धत्वम् । आधिक्यं पूर्वत्वम् । 'मद्भक्तपूजाभ्यधिके'त्यत्राधिक्यं प्राथम्यमिति व्याख्यानात् । तादृशेति मनोमयवाक्योक्ते ब्रह्मणो मननोपदेशे मननरूपोपासने । अधिकारस्येति 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपा- सीते'त्युक्ते सर्वजगतो ब्रह्मत्वेनोपासने स्पष्टनिरवग्रहोपासनाधिकारस्य । अयमेव समाधिरिति यथाक्रतुरिति पुरुषविशेषणबोधके पदे प्रकारांशे पुरुषाधिकारस्यापि निवृत्तत्वान्निर्गुणफलाप्राप्तिः सगुणोपासकस्य सावग्रहाणिमाद्यैश्वर्यप्राप्तिश्च न निरवग्रहैश्वर्यप्राप्तिरिति समाधिरेव । शाङ्करेपि मते सगुणोपासकस्य न निर्गुणप्राप्तिः, सगुणप्राप्तावपि न निरवग्रहाणिमाद्यैश्वर्यप्राप्तिः किन्तु सावग्रहाणि- माद्यैश्वर्यप्राप्तिरित्यस्मिन्मते । उक्तरीत्येति अव्यवहितोक्तरीत्या । तथाहि । निर्गुणस्य रूपस्य सर्वांसाम्येन सगुणे साम्यराहित्याभावेन समसाहित्ये प्राप्ते इति रीत्या । तद्राहित्यस्येति समाभ्य- धिकराहित्यस्य । एतच्छ्रुतीति 'न तत्समश्चाभ्यधिकश्चे'ति श्रुतिविषयतायाः । तत्र शाङ्करे मते । समाभ्यधिकेति समाभ्यधिकयोर्निषेधस्तत्सावधिकतया श्रुतेर्निर्गुणस्य बोधकत्वे च । समसा- हित्यस्येति श्रुतौ तदित्यव्ययं लुप्तपञ्चमीकम्, निर्गुणाद् अवधेः समाभ्यधिकनिषेधेऽधिकधर्मी- देर्मायिकत्वेनाधिक्यसाहित्याप्राप्त्या समसाहित्यस्यैवेत्यर्थः । विशिष्टं शुद्धानातिरिच्यत इति नैया-