सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2472, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2472

११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२ ० भाष्यप्रकाशः। बापत्तेश्च । अधिकारविचारेणातत्क्रतुत्वसाधने च निरवग्रहतायाः प्राप्तेरेवाभावेन स्वातन्त्र्य- शङ्काया एवानुदयात् स्वातन्त्र्ये प्रतिभत्वप्रसङ्गस्यैवाभावादिति दिक् । भास्कराचार्यास्तु, सिद्धान्ते 'अविभागेन दृष्टत्वा'दित्यारभ्य परंमकारणे सायुज्यं गतानां निरवधिकमैश्वर्यमिति स्थितम् । ये पुनर्वेदान्ते द्वैतवादिनो मन्यन्ते, मुक्ताः पृथगवति- ष्ठन्त इति, तन्मतमभ्युपगम्य, सावधिकमैश्वर्यं तेषामपि प्रतिपादयितुं जगद्व्यापारवर्ज्याधिकरण- मारभत इत्युक्त्वा, जगद्व्यापारादिसूत्रं पूर्ववदेव व्याख्याय, विकारावर्तिसूत्रे, पारमेश्वरं पुनरैश्वर्यं नित्यसिद्धं विकारावर्ति, स्वमहिमप्रतिष्ठत्वात्, 'तावानस्य महिमे'ति श्रुतेः । कार्यब्रह्मलोकवर्तिनां मुक्तानां 'सङ्कल्पादेवे'ति श्रुतेः । 'तदैरम्मदीय ९ सरस्तदश्वत्थः सोमसवन' इति बहुविधमैश्वर्ये प्रकीर्त्य तत्रेश्वरायत्तमित्युपपन्नम् । 'दर्शयतः' इति सूत्रे, परस्य ज्योतिषो विकारावर्तित्वं विका- रानुग्राह्यत्वं च 'न तत्र सूर्यो भाती'त्यादिश्रुतिस्मृती दर्शयत इत्युक्तवन्तः । तन्मते विकारावर्त्यादिसूत्रयोर्यद्यपि न वैयर्थ्यम्, तथापि दहरविद्योक्तब्रह्मलोकस्य कार्यत्वं यदङ्गीकृतमेतैरन्यैश्च तच्चिन्त्यम् । तत्कार्यत्वबोधकप्रमाणानुपलम्भात् । न च प्रद्यु- विमितं हिरण्मयमिति वेश्मविशेषणे विमितमितिपदे निर्मितत्वकथनादेकदेशस्य कार्यत्वे सर्वस्य तथात्वं शङ्क्यम् । विमितपदस्य विशेषेण मितं ज्ञातमित्यर्थकतयापि नेतुं शक्यत्वेन ततो निर्णया- भावात् । नापि, 'तृतीयस्यामितो दिवी'ति ब्रह्माण्डान्तर्वर्तित्वश्रावणात्तद्भाशे एतद्भासात्कार्य- त्वमिति वाच्यम् । 'नास्य जरयैतज्जीर्यती'त्यादिना आत्मरूपताबोधनेनास्याः शङ्कायाः प्रागेव निरस्तत्वात् । न च तदन्यदेव, नेदमिति वाच्यम् । एकप्रकरणगतत्वेन पूर्वे 'एतत्सत्यं ब्रह्मपुर'- रश्मिः। यिकोद्घोषात् । आपत्तिस्तु न तत्सम इति निषेधाद्बोद्ध्या । अधिकारेति यत्र यस्यानधिकारस्तस्य तत्क्रतुत्वं अन्यस्यातत्क्रतुत्वस्य साधने । निरवग्रहताया इति निरङ्कुशतायाः । स्वातन्त्र्येति निरङ्कुशतायाः । इत्युक्तवेति भेदाभेदवादादित्युकत्वा । सङ्कल्पादिति छान्दोग्ये 'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती'ति दहरविद्यायाम् । ऐरमिति इराया वारिणः सम्बन्धि न शुष्कम् । 'इरा वारिसुराभूमिभारतीषु प्रयुज्यत' इति विश्वः । इरान्नं तन्मय ऐरः मण्डस्तेन पूर्णमैरं सरः मदीयं तदुपयोगिनां हर्षोत्पादकमिति टीकायाम् । सोमसवन इति सोमं सूत इति सोमसवनः । नन्द्यादित्वाल्युः । सोमं स्रवतीति सोमसवन इति टीकायाम् । 'सवनं यजने स्नाने सोमनिर्दलनेऽपि चे'ति विश्वः । तेन स्रवतीत्यस्य निर्दलतीत्यर्थः । षूञ् विशरणे भ्वा. प. से. । तत्रेति छान्दोग्ये । ईश्वरायत्तमिति ऐश्वर्यम् । 'आत्मानमनुविद्य व्रजन्ती'ति पूर्वश्रुत्या स यदीत्यत्र स इत्यस्यात्मानुविदित्यर्थात् । न वैयर्थ्यमिति दृष्टान्तार्थत्वाभावान्न वैयर्थ्यमित्यर्थः । एकदेशस्येति हिरण्मयस्य । तथात्वं कार्यत्वम् । तृतीयस्यामिति छान्दोग्ये 'अथ यदिद'मित्यारम्भके प्रपाठकेऽस्ति । इतो भूलोकादारभ्यान्तरिक्षं चापेक्ष्य तृतीयस्यां तृतीयत्वेन व्यवस्थितायां दिवि द्युलोकाख्ये ब्रह्मलोके अरश्चेत्यादिरस्ति । प्रागेवेति दहराधिकरणे । 'जगद्व्या- पारवर्ज्या'धिकरणे । तृतीयचरणे 'कार्यं बादरि'रित्यधिकरणे च । न च तदिति छान्दोग्यीयं दहर- विद्योक्तम् । नेदमिति न 'तृतीयस्यामितो दिवी'त्यनया श्रुत्योक्तम् । तथा च 'नास्य जरये'त्यादिहेतुना तृतीयस्यामित्युक्ते नाशनिवृत्तिरिति भावः । एकप्रकरणेति मन्दाधिकारिप्रकरणगतत्वेन टीकायां स्पष्टम् । 2334