सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2476, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2476

२२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२. भाष्यप्रकाशः। सर्वत्र यावत्सु क्षीरसागरम् । पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः । मानुषा वर्णभेदेन तयैवाश्रमभेदतः । क्षितिपा मनुष्यगन्धर्वा.देवाश्च पितरश्चिराः १। आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः । रुद्रो ब्रह्मेति क्रमस्त्वेषु चैवोत्तमोत्तमाः । नित्यानन्दे च भोगे च ज्ञाने- श्वर्यगुणेषु च । सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतु- र्मुखः । स्वजगद्यापृतिस्तेषां पूर्ववत् समुदीरिता । सयुजः परमात्मानं प्रविश्य च बहिर्गताः । चिद्रूपान् प्राकृताँश्चापि विना भोगॉस्तु काँश्चन । भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदीहृते'ति गारुडवाक्यानि लिखन्ति । तेन तन्मते मुक्तानां मुक्तेश्च तारतम्यं सिध्यति । विकारावर्तिसूत्रे च 'साधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बलिं हरन्ति मुक्ताश्च विरञ्च्याय च पूर्ववत् । समञ्जकास्तु ते देवा विष्णवेऽत्र विशेषतः । न विका- राधिकारास्तु मुक्तानामन्य एव तु । विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुने'ति वाराह- वचनं लिखन्ति । तेन तन्मते मनुष्यादीनां चतुर्मुखान्तानां स्वस्वव्यापारकरणं तत्तदाधिकारश्च सिध्यति । क्वचित्, मुक्तौ तारतम्यमस्ति, न वेति सन्देहे तारतम्ये प्रमाणाभावात्तदङ्गीकरणे च 'निरञ्जनः परमं साम्यमुपैती'ति श्रुतिविरोधान्मुक्तेः स्वर्गसंसारसाम्यापत्तेर्मुक्तानां स्वसाम्या- धिकदर्शने दुःखेष्र्यादिप्रसङ्गाच्च न मुक्तेस्तारतम्यमिति पूर्वपक्षः । सिद्धान्तस्तु तैत्तिरीये, 'सैषा- नन्दस्य मीमांसा भवति ते ये शतं मानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्ये'त्यादिश्रुत्या मनुष्यगन्धर्वप्रभृतिब्रह्मान्तानां श्रोत्रियत्वमकामहतत्वं च भाषितम् । वाजसनेयके च, 'अथ ये शतं कर्मदेवानामानन्दाः स एक आजानजानां देवा- नामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहत' इत्यादिश्रुत्याजानजानारभ्य ब्रह्मलोकानन्दपर्यन्त- मकामहतत्वमवृजिनत्वं च भावितम् । अकामहतत्वं च कामकृतोपद्रवरहितत्वम्, न त्वका- मत्वं हतशब्दवैयर्थ्यात् । अवृजिनत्वं च पापरहितत्वं दुःखरहितत्वं वा । अवृजिनत्वाकामहत- रश्मिः। भूमिम् । यावत्सु वस्तुषु । क्षीरसागरं लक्ष्यीकृत्य । चिराः पुराणाः । शचीपतिरिन्द्रः । स्वजग- दिति तृणारणिमणिन्यायेन तत्तद्ब्रह्माण्डान्तरेष्वपि बोध्या । पूर्ववदिति ब्रह्मवत् । ते समुदीरिताः । सयुज इति सह युनक्तीति सयुक् जसि सयुजः । चिद्रूपान् रौद्रान् । 'वेदः शिवः शिवो वेद' इति श्रुतेः । सदानन्दः कृष्णः चिच्छब्दः 'नामचिद्विकत्थने'त्यृग्वेदश्रुतेः । प्राकृतान्मायि- कान् मानसान् 'माया मनः सृजती'ति श्रीभागवतात् । विनायोगे द्वितीया मानसान्प्राकृतान् भोगान् विना । त इति । अर्थो गरुडपुराणाज्ज्ञातव्यः । पूर्ववदिति चतुर्य्यन्ताद्वतिः । ब्रह्मवत् । 'विकारावर्ति चे'ति सूत्रार्थः । न विकाराधीति ते न विकारावर्तिनः किन्तु मुक्तानां मध्येऽन्ये तरतममुक्तिं प्राप्ता एवेत्यर्थः । 'तथाहि स्थितिमाहे'ति सूत्रांशार्थः विकाराधीति । नियुक्ता इति आज्ञाद्वारा वैधे नियुक्ताः । क्वचिदिति मध्वा इवेव । सिद्धान्तस्त्विति वदन्तीत्यग्रेन्वयः । श्रोत्रियत्वमिति श्रोत्रियश्छन्दोधीते यः सः । अवृजिनत्वेति मुक्तलिङ्गत्वमित्यनेनान्वयः । १. चरा इति प्रकाशस्यपाठः । 2338

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2476, कुल 2600 में से · BharatKosha