सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2477, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2477

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९२१ भाष्यप्रकाशः। स्तयोश्च 'यत्राप्ताः कामास्तत्र माममृतं कृधी'ति श्रुत्या, 'स हि मुक्तोऽकामहत' इति ब्रह्माण्ड- वाक्येन च मुक्तलिङ्गत्वम् । न चैतयोरपरोक्षज्ञानिलिङ्गत्वमिति शङ्क्यम् । प्रारब्धपापतत्कार्य- दुःखयोस्तस्मिन्नपि सत्त्वात् । श्रोत्रियत्वमपि मुक्तस्यैव मुख्यम् । 'प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः । ते एव चाप्तकामत्वात् तथाऽकामहता मता' इति भारत्तोक्तेः । एवं सत्येतेषां मुक्तलिङ्गत्वम् । एवं सत्येतयोः श्रुत्योरुत्तरोत्तरमानन्दाधिक्यकथनं मुक्तितारतम्ये पर्यवस्यति । किञ्च 'अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवु'रित्यादितैत्तिरीयश्रुतौ मनोवेगे सर्वेषामसाम्यकथनात्, 'मुक्तानामपि सिद्धानां नारायणपरायणः स दुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' इति श्रीभागवतवाक्ये, 'मुमुक्षोरमृतुक्तस्तु परो ह्येकान्तभक्तिमा'निति पुराणान्तरवाक्ये, 'अन्ये त्वेवमजानन्त' इति, 'स्त्रियो वैश्यास्तथा शूद्रा' इति गीतावाक्ये च साधनतारतम्येन फलतारतम्यप्रतिपादनात्, 'अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी'ति वाक्ये चाल्पभक्तिसाध्यमुक्तितोऽधिकभक्तिसाध्यमुक्तेराधिक्यप्रतिपादनात्, अस्मदादिमुक्तभोगो, मुक्तचतुर्मुखभोगात्निकृष्टः, अस्मदादिभोगत्वात्, संसारस्थास्मदादिभोगवदित्यनुमानादपि मुक्तौ तारतम्यमेव पर्यवस्यतीति प्रमाणाभावरूपो हेतुरसिद्धः । दुःखाभावसत्यकामतादिना सरः- सागरयोरिव स्वयोग्यानन्दपूर्त्या च मुक्तानां ब्रह्मसाम्ये साम्यश्रुत्युपपत्तेस्तद्विरोधरूपो हेतुरप्यसिद्धः। बहुजन्मनिर्गतदोषत्वे ब्रह्मापरोक्षाच्च द्वेषेष्यदिसम्भावनाया एवाभाव इति सोऽप्यसिद्धः । अतो मुक्तितारतम्यं निष्प्रत्यूहमिति वदन्ति । तत्र यदि मुक्तस्तारतम्यम्, तदापि मुक्तिं प्रति तत्तदुपासनाया भक्तेर्वा तदनुरूपाया एव कारणत्वमिति तत्क्रतुन्यायादेव तारतम्यक्रम्रादिसिद्धिरिति किमनेन विचारेणेति प्रकृतानुपयोगा- त्तदनुचिन्तनप्रयोजनस्याप्यनुपलब्धेश्च तत्र वयमुदासीनाः । प्रकृतमनुसरामः । अत्रैतत् सिद्धम् । ज्ञानमार्गीयाणां तद्रीयताऽदृश्यत्वादिकरणका- क्षरोपासने तत्क्रतुन्यायेन तादृशेऽक्षरे 'ब्रह्मैव सन् ब्रह्माप्येती' तिश्रुत्युक्तो लयः । अक्षरस्य, रश्मिः। एतयोरिति अवृजिनत्वाका महतत्वयोः । तस्मिन्निति ज्ञानिनि । प्राप्तमोक्षिणो मुक्ताः । एतेषा- मिति श्रोत्रियत्वाका महतत्वावृजिनत्वानाम् । एतयोरिति तैत्तिरीयवाजसनेयकयोः । सर्वेषामिति अक्षण्वतां कर्णवतां सखीनाम् । अन्ये त्वेवमिति 'श्रुत्वान्येभ्य उपासत' इति द्वितीयचरणः । प्रमाणाभावेति इमे हेतवः क्वचित्त्वित्यादिनोक्ताः । असिद्ध इति मुक्तिः तारतम्याभाववती तारतम्ये प्रमाणाभावाच्छ्रुतिविरोधाद्दुःखेर्ष्यादिप्रसङ्गाज् जनकवद् व्यतिरेके जयविजयवत् । मुक्ति- स्तारतम्यवती प्रमाणसत्त्वाच्छ्रुतिविरोधाभावाद् दुःखेर्ष्यादिप्रसङ्गाभावाद्युक्तभक्तवद् व्यतिरेके ज्ञानिवद् इति सत्प्रतिपक्षत्वेऽपि स्वरूपासिद्धः । सिद्धान्तवाक्यैः श्रुतेरिति स्वरूपासिद्धियोधात् । द्वितीये हेतुसम्बन्धिविचारमाहुः दुःखाभावेति । सोपीति दुःखेर्ष्यादिप्रसङ्गरूपो हेतुरपि । तत्क्रतुन्यायेनेति अप्रतीकालम्बनसूत्रेोक्तेन । तादृश इति ज्ञानिनामक्षरत्वेनोपस्थितेऽक्षरे । ब्रह्मैव सन्निति सामीप्यमुक्त्या ब्रह्मैव सन् बहिःप्रकटे निर्विशति सद्योमुक्तिं प्राप्नोतीत्यर्थे भक्तिमार्गे, ज्ञानेनाविद्यानिवृत्तौ सायुज्याद्ब्रह्मैव सन् ब्रह्माप्येतीत्युपचर्यते । यद्वा । युक्तः सन् भक्तिलाभे ब्रह्माप्येति परब्रह्मसामीप्यम्येति गच्छति ज्ञानीत्यर्थः । अक्षरत्वेनोपस्थितिमुरुत्वा १. श्रुत्वा । 2339