सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2479, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2479

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६२१ जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरासुराँस्तानहो बुधाः ॥ १ ॥ नानामतध्वान्तविनाशनक्षमो वेदान्तहृत्पद्मविकाशने पटुः । आविष्कृतोऽयं भुवि भाष्यभास्करो मुधा बुधा धावत नान्यवर्त्मसु ॥ २ ॥ पुरन्दरमदोद्भवप्रचुरवृष्टिसम्पीडित- स्वकीयवरगोकुलावनपरायणो लीलया । स्मितामृतसुवृष्टिभिः परिपुपोष तान् यो गिरिं दधार च स एव हि श्रुतिशिरस्तु संराजते ॥ ३ ॥ भाष्यप्रकाशः । एवं सर्वं शास्त्रं व्याख्याय स्वीयशिक्षार्थं सङ्क्षेपेण तदर्थमुपदिशन्ति जानीतेत्यादि । तद- न्यदिति । तत् परमं तत्त्वम् । अन्यत् यावद्धर्मशून्यम् ॥ १ ॥ भाष्यविभावनार्थमुपदिशन्ति नानेत्यादि ॥ २ ॥ अत्रोक्तस्य फलस्य भगवत्कृपाधीनत्वाद्वगवतः कृपालुत्वं स्वीयरक्षकत्वेन स्फुटीकुर्वन्ति पुरन्दरेत्यादि । हिर्हेतौ ॥ ३ ॥ रश्मिः । शास्त्रमिति उपाङ्गमीमांसाशास्त्रम् । अवयवेष्वपि शास्त्रत्वमविरुद्धम् । षट् शास्त्राणि । सङ्क्षेपे- णेति सन्दिग्धवाक्यानां मीमांसाविषयत्वाद्विस्तरे बुद्धिनिवेशाच्च सङ्क्षेपेण शास्त्रार्थम् । जानीतेत्यादीति । फलाध्याये प्रतिपादितं सन्दिग्धफलमुपदिशन्ति आज्ञापयन्ति यथा स्वमार्गीयः स्वार्थान्न नश्येत् । आचार्याज्ञोलङ्घनं महापराध इति । तत् परमं तत्त्वम् । अन्यत् यशोदोत्सङ्गलालितादन्यत् भिन्नं यावद्धर्मशून्यम् । हे बुधा आसुरान् तामसान् अभिन्ने भिन्नत्वबुद्धीन् तान् जानीतेत्युपदेशः ॥१॥ नानेत्यादीति । नानामतानि अन्यभाष्याणि ज्ञेयानि । नानामतैर्ध्वान्तः सूत्रार्थप्रकाशस्तस्य विनाशने क्षमः समर्थः । भावे ल्युट् विनाशन इत्यत्र, क्षम इत्यत्र पचाद्यच् । वेदान्तेति । उपनिष- त्सिद्धान्तविकाशने । भाष्येति अणुभाष्यभास्करः । नामैकदेशग्रहणम् । भास्करपदेन ब्रह्मज्ञाने- धिकारि अणुभाष्यमिति द्योतितम् । धावतेति । भाष्यविभावनार्थमुपदेशः आज्ञा । फलानन्तरं भाष्य- विभावनोक्त्या ज्ञापयन्ति । आत्मानन्दसमुद्रस्थं कृष्णमेव भाष्येण विचिन्तयेदिति । तदुक्तं सिद्धा- न्तमुक्तावल्यां 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्द समुद्रस्थं कृष्णमेव विचिन्तये'- दिति ॥ २॥ भगवत्कृपेति । कृपा प्रथमचतुर्थचरणे 'सूक्ष्मं तु तदर्हत्वा'दिति सूत्रभाष्ये महतः परं निवेशिता । 'कृपाविष्टः साधनं भगवान् तत्कृपा 'तदन्तरप्रतिपत्ता'वित्यायुक्तसाधने ब्रह्मात्मके परम्परया वर्तत इत्याशयेन कृपालुत्वम् । भगवत्कृपया भाष्यं कृतमिति । 'इति भारतमाख्यानं कृपया मुनिना कृत'मिति न्यायेन । 'दत्त्वाज्ञां च कृपावलोकनपटु'रिति प्रथमसुबोधिन्याम् । पुष्टिमार्गीयत्वेन शेषानाहुः स्वीयरक्षकत्वेनेति । गिरिं दधारेति पदतात्पर्यार्थः । पदद्वयार्थानुसन्धाने बीजमग्रे वाच्यम् । पुरन्दरेत्यादीति । स्मितामृतेति स्मितं श्रीरामचन्द्रः हासरूपत्