सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2480, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2480

३२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० ५ सू० २२. श्रीकृष्णकृपयाप्ययं सिद्धान्तो हृदि भासते । तेनाधिकं वरीवर्ति न वक्तव्यं हरेर्नृणाम् ॥ ४ ॥ भाष्यपुष्पाञ्जलिः श्रीमदाचार्यचरणाम्बुजे । निवेदितस्तेन तुष्टा भवन्तु मयि ते सदा ॥ ५ ॥ इति श्रीमद्वेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥ समाप्तश्चतुर्थोऽध्यायः ॥ ४ ॥ भाष्यप्रकाशः। भाष्यविभावनयार्थस्फुरणेपि भगवत्कृपाया एव कारणत्वम्, न पाण्डित्यादेरित्याशयेनाहुः श्रीकृष्णेत्यादि ॥ ४ ॥ गुणोपसंहारपादमारेभ्य सार्धाध्यायस्य स्वयंकरणात्तदाचार्येषु निवेदयन्तः समाप्तौ मङ्गलं कर्तव्यमिति शिष्टाचारं च शिक्षयन्त आचार्याणां प्रसादमभ्याशास्ते भाष्येत्यादि। अर्थस्तु श्लोकानां स्फुट इति शुभम् ॥ ५ ॥ क्रीडन् श्रीबालकृष्णः परमकरुणया मन्मनः प्रेरयित्वा भाष्यार्थं योगतिगूढं प्रकटितमकरोत् सम्प्रदाये निवृत्ते । तं नित्याकुण्ठशक्तिं शृतनिखिलनिजाज्ञानसंसारहारं स्मृत्वा स्मृत्वोपकारं प्रमुदितसुचितः स्वप्रभुं संनमामि ॥ १ ॥ रश्मिः। तापनीये 'गोपिकानयनाम्भोजमालिने नृत्यशालिने' इति नमनं फलात्मकसोक्त्वा यद्यपि गिरिधराय वेति साधनरूपमुक्तम् । तथापि 'नमः प्रणतपालाये'त्यस्यानुक्तौ बीजं स्वरूपमर्यादां परित्यज्य भक्त- मनोरथपूरकत्वेनोपकारस्मरणम् । पादसेवनवत् । श्रुतिशिरःस्थिति वेदान्तेषु । 'ऋचां मूर्धानं यजुषामुत्तमाङ्गं साम्नां शिरोऽर्थवणां मुण्डमुण्ड'मिति वाक्यात् । संराजत इत्यपि श्रद्धाविशेषात् । प्रथमं पादसेवनं पश्चादन्याङ्गसेवनमिति ॥३॥ श्रीकृष्णेत्यादीति। तेन सिद्धान्तेनाधिकं वरीवर्ति तथापि हरेर्नृणां नृभिर्न वक्तव्यम् । यत एतावत्तैव परमार्थसिद्धेऽधिकवचने गौरवदिति भावः ॥४॥ निवेदयन्त इति यत्करोषीति स्मृतेः । कर्तव्यमिति ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते कृतमङ्गलानि शास्त्राणि प्रथन्त इति सदाचारात्कर्तव्यम् । प्रसादमिति तोषम् तेन 'अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेदयुक्त्या च प्रसादात्परमात्मन' इति श्रुत्युक्तसाधनसम्पत्तिम् । स्फुट इति । श्रीमदाचार्येति श्रीमन्त आचार्याः श्रीमदाचार्याः व्यासचरणाः । आचार्यभाष्यपक्षे । श्रीमद्गोस्वामिभाष्यपक्षे श्रीमदाचार्याः श्रीवल्लभाचार्या इति सर्वं शुभम् ॥ ५ ॥ स्वयं मङ्गलश्लोकाञ्जिगभ्रन्ति स्म क्रीडन्नित्यादिना । प्रकृतिजातिः । 'त्र्यैर्यानां त्रयेण त्रिमुनियति- युता स्रग्धराकीर्तितेयम्' । बालश्चासौ कृष्णः सदानन्दः 'नैर्भिन्न्यं वाषि पूर्व्व'दिति सुबोधिन्या 'समान एवं चाभेदा'दिति सूत्रेणावतारिवदवतारेपि मङ्गलघटकत्वेपि स्वसेव्यस्वरूपनमनात्मकपि मङ्गलमिदम् । 2342