अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2487, कुल 2600 में से
संदर्भ में पढ़ेंINTRODUCTION. IV That this प्राकट्य is of रसो वै सः and it is not simply an emotion of the mind is clear from the following :— श्रुतौ हि ‘असद्वा इदमग्र आसीत्, ततो वै सदजायत, तदात्मानं स्वयमकुरुत, तस्मात्तत्सु- कृतमुच्यत इति यद्वै तत्सुकृतम्, रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवती’त्येवं पूर्वसृष्टोरसाधुत्वं, ततः सृष्टयन्तरस्य साधुत्वम्, साधुत्वे ह्यात्मरूपत्वरूपं हेतुः, तस्य सुकृतत्वं, सुकृतस्य रसत्वं, रस- स्यानन्दरूपता च बोधिता । तत्र यद्युद्बोधकादिप्रणाडी न विवक्षिता स्यात्, आत्मकरणं न वदेत्, यदि वा सर्वसामान्या स्यात्, पूर्वसृष्टेरसाधुत्वमनेवंरूपतां च न वदेत् । यदि च रसस्य मनोविकारत्वं लौकिकत्वं वा विवक्षितं स्यात्, तदाप्यात्मकरणं आनन्दरूपत्वं च न वदेत् । अत उद्बोधकादिवैशिष्ट्यं श्रुतिसिद्धम् । तदेतदुक्तं तत्स्वरूपस्यैव तथात्वादि- त्यन्तेन । तथा च प्रनाड्यङ्गीकारेऽपि न भगवद्रूपत्वहानिरित्यर्थः । किञ्च, अनुकृत्यधिकरणे सर्वस्य भगवदनुकारित्वं 'तमेव भान्तमनु भाति विश्व'मिति विषयवाक्येन प्रतिपादितम्, अतः प्रकृतेऽपि यदि लौकिको रसः प्रतिपाद्यते, तदापि मूलरसानुकारितयैव तत्स्वरूपं सिध्यतीत्येतद्दृष्टान्तेन सोऽपि रसो- नुमीयताम् । अयं लौकिकः परिच्छिन्नो, मात्रोपजीवनश्रुतेः, स त्वपरिच्छिन्नो, भूमत्वात् । तथा च लोकेऽनुकरणमात्रेण तदाभासस्यैव प्राकट्यम्, न तु तस्येति न जीवस्य तत्करणेऽपि न तद्रससम्बन्ध- लेशः । शास्त्रप्रणयनं तु दूरतस्तस्यैव परिचायनायेति तत्रैव स्फुटम् । वस्तुतस्तु पाद्मे पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादादुभयोर्वैष्णवत्वमवगम्यते । एवं भरतस्यापि, नाट्यशास्त्रज्ञातुर्मोक्षकथनात् । किञ्च, आञ्जनेयोऽपि प्रणेता नाट्यशास्त्रस्य । स च परमभक्तो जनकतनयाप्राणनाथस्य । अतस्तादृशां य एतावान् प्रयासः स न त्रिवर्गोपयोगितया जीवार्थः, अपि तूक्तरीत्या मोक्षसाधनतापर्यन्ततया । किञ्च, वात्स्यायनेन सांप्रयोगिकाधिकरणे ‘ऋचां दशतयीनां चतुःषष्टिसंज्ञितत्वाद्विहापि तदर्थ- सम्बन्धात्ताम्बालसम्बन्धाच्च बह्वृचैरेषा पूजार्थ संज्ञा प्रवर्तितेत्येक’ इति सूत्रयता संप्रयोगाङ्गचुम्बनादी- नामृगर्थत्वं प्रदर्शितम् । ‘सर्वे वेदा यत्पदमामनन्ति’ ‘वेदैश्च सर्वैरहमेव वेद्य’ इति श्रुतिस्मृतिभ्यां वेदस्य भगवत्परत्वं सिद्धम् । एवं सत्यस्य शास्त्रस्य तत्सामानाधिकरण्ये वेदवत् परोक्षवादेन लीला- सहितभगवत्प्रतिपादकत्वं युक्तमेव । गान्धर्वस्य सामवेदोपवेदतया च । अत एवमर्याज्ञादृशां जीवानां भ्रान्तिरित्यतादृषमभिसन्धायोक्तं तन्मत्यादि, बुद्धयध्वमित्यन्तम् । तस्मान्न कोपि शङ्कालेश इति दिक् । ( प्रकाश on भा. १०. १०.१ ) That this प्राकट्य is of परब्रह्म in पुष्टिमार्ग is clear from the three लीलाs, viz, जन्मलीला, मृद्भक्षणलीला and दामोदरलीला. We may study various systems of religions from a historical point of view, we may try to fix exact dates of the various teachers, and their systems, we may try to penetrate into the mysteries of various rites and ceremonies of differant religions, but what is the use of all these things if they do not lead us into the Presence of God ! भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः, क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे. ( मुण्डक.)