अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2488, कुल 2600 में से
संदर्भ में पढ़ेंand व्यसन. In सिद्धान्तमुक्तावली he says कृष्णसेवा सदा कार्या. सेवा is defined as चेतस्तत्प्रवणं सेवा. This reminds us of मन्मना भव मद्भक्तः in गीता. In Aṇu-Bhāshya तृतीयाध्याय तृतीयपाद, this question is discussed 'यथा साक्षात्कारो भवति, तथा साधनमुपासनात्मकं वक्तव्यम् । उपासनायां च क्रियमाणायां धारणासिद्धौ मानसी मूर्तिरभिव्यक्ता भवति । तत उपासनापरिपाके साक्षात्कारः.' In this connection प्रदानवदधिकरण 3.3.16-17, and लिङ्गभूयस्त्वाधिकरण 3.3.43-47, will be specially useful to understand श्रीवल्लभाचार्य's and श्रीविठ्ठलेश्वर's view. When once God does become प्रकट, all the इन्द्रियs also get their highest फल, as is clear from अक्ष्णवतां फलमिदम् etc. (वेणुगीतसु.) That ब्रह्म and कृष्ण are not different is clear from the derivation of the word कृष्णः—'कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकः, तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते.' ब्रह्म comes from बृह् to grow or increase, and the whole जगत् which has grown out of ब्रह्म is nothing but ब्रह्म itself, 'सर्वं खल्विदं ब्रह्म.' It is also called आत्मा from अत् to spread, अहिकुण्डलवत्. ब्रह्म is निःप्रकारकम्, while आत्मा signifies प्रकार. In either sense it is रस, रसो वै सः, and when रस becomes प्रकट, it is फलरूपकृष्ण. All the three words bear the same meaning from different points of view. All the three words ब्रह्म, आत्मा and रस etymologically imply परिणाम and that too in स्वरूप and not of शक्ति or शरीर or माया; therefore it cannot but be अविकृतपरिणाम. परिणाम can only be of something which is साकार, and this आकार is आनन्दमात्रकरपादमुखोदरादि. How this आकार becomes manifest is mentioned in रसनिष्पत्तिप्रकार in वेणुगीत (भागवत १०. १८. ८). That the reader may be able to connect it with the परिशिष्ट of श्रीगोपेश्वरजी, and have a faint vision of his meaning, this is quoted here in full. चूतप्रवालबर्हस्तबकोत्पलाब्जमालाऽनुषक्तपरिधानविचित्रवेषौ । मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ ॥८॥ केवलं रसरूपमाह चूतेति । सु०-चूतानामाम्राणां प्रवालाः कर्णयोः, बर्हस्तबकाः बर्हगुच्छानि शिरसि, उत्पला- ब्जानां माला कण्ठे, तैरनुषक्तं मिलितं परिधानं पीताम्बरादिवस्त्राणि तैर्विचित्रो वेषो ययोः । एतादृशावुभावपि पशुपालगोष्ठ्यां मध्ये विरेजतुः । रसाभिनयेऽवतारवदेवावेशस्या- प्युपयोगाद् द्विवचनम् । 'गुणा माया च वेषार्थमुपयुक्ता भवन्ति हि । अतो रसस्याभिनये चत्वारोऽर्था निरूपिताः ॥ १ ॥ रसरूपसुगन्धानां प्रतिष्ठा त्रिषु निश्चिता । धर्माच्छादनबोधाय मायाप्यत्र निरूप्यते ॥ २ ॥ वस्तुनिर्देशमात्रेण श्रोतृणां काव्यवद् रसः । रसवत्फलबोधाय प्रथमं पल्लवो मतः ॥ ३ ॥ शास्त्रार्थस्य परिज्ञानाद् भावस्य कलिका भवेत् । ततस्तस्य च वैचित्र्यं पुष्पस्थानमिहोच्यते ॥ ४ ॥ अहोरात्रं वासना स्यात् तत आच्छादनं स्मृतम् । रसोत्पत्त्यर्थमेतावन्निरूपितमितिस्थितः ॥ ५ ॥ आविर्भावे रसास्वादान् नृत्यं शोभा ततो भवेत् । अतोतिगुप्तो भगवान् रसत्वं प्रतिपद्यते ॥ ६ ॥ विचित्रवेषाविति सर्वरसाभिनिवेशनात्थम् । त्रयाणामन्योन्यगुणप्रधानभावे नव रसा भवन्ति । एवं रसरूपं भगवन्तं निरूप्य तद्रसपोषकौ समाजे गानगीतविशेषौ निरूपयति