अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2492, कुल 2600 में से
संदर्भ में पढ़ेंइति । एतादृशीमवस्थां प्राप्य न कोप्येवंविधो जात इत्याश्चर्यम् । किञ्च । गोविन्दे स्वकीयत्वेन ज्ञाते वस्तुतः अखिलात्मनि एवं रूढभावः, अतो देहस्य स्वाधीनस्यैतदेव फलमिति सर्वात्मत्वेन ज्ञात्वापि निर्दोषपूर्वभावनिष्ठा एव । ननु ज्ञानावस्थोत्तरेति, 'आत्मलाभान्न परं विद्यत' इति, एता भगवता ज्ञाननिष्ठा कृता इति च, वस्तुत एवाग्रे देहस्यानुपयोगात्कथमेषा स्तुतिरिति चेत्तत्राह वाञ्छन्ति यमिति, यं भावं भवादृ शीः येषां ते मुमुक्षवः मुनयो मुक्ताः वयं भक्ताः चकारात्सर्व एव धर्ममार्गपरा अपि । अवश्यं हि विदेहकैवल्यपर्यन्तं सर्वेषां बहिःसंवेदनास्त्येव, जीवन्मुक्तानां तथा श्रवणात् । तत्र लौकिक एव भावः सर्वेषां जायत इति कालावच्छेदेन जन्म- वैयर्थ्यमेव । अन्येषां तु वैयर्थ्यं सिद्धमेव । नारदादीनामपि कदाचित् प्राकृतवद् व्यवस्था । अन्यथा लौकिकसमानकार्यं न स्यात्, प्रह्लादस्यापि राज्यादिकरणात् तथावसीयते । बहिःसंवेदने तु एषैवा- वस्था सर्वशास्त्रपर्यवसिता नातोऽन्या क्वचिदप्यस्तीति अवस्थायां विचार्यमाणायामेता एव तनुभृतः । नन्वेतदपेक्षया ये श्रोत्रिया ब्रह्मविदो ब्राह्मणाः वसिष्ठादयः ते महान्तो भविष्यन्तीत्याशङ्क्याह किं ब्रह्मजन्मभिरिति । ब्रह्मभावापन्नानां जन्मभिः शौक्लसावित्रयाज्ञिकैः किं, न किञ्चित् । यद्यपि बहिःसंवेदने तेषां वेदार्थानुष्ठातृत्वं दीर्घसत्रित्वादिरूपमन्तर्निष्ठायां तु ब्रह्मपरत्वमिति, तथापि कर्मापेक्षया भक्तिरधिका, कर्म हि प्रपञ्चे स्वास्थ्यं सम्पादयति न तु भक्तिः, यो हि दुष्टं मन्यते स दुष्ट इति निर्धारः । तत्तत्प्रकरणे तत्तत्प्रशंसा तु प्रकरणानुरोधिनी, अतः अनन्तकथायामरसस्य ब्रह्मजन्मभिः कर्मोपयोगिभिरपि न किञ्चित् । ननु तथाप्युत्कर्षहेतुः लोके तद्ववतीति युक्त्या बाधेऽपि प्रसिद्धैव उत्तमफलत्वं पर्यवसानविधया कल्प्यत इति चेत्तत्राह अनन्तकथायां रसयुक्तस्य पूर्वोक्त- ब्रह्मजन्मभिः न कोपि पुरुषार्थः साधनीयः । ततोप्युत्कृष्टस्यैव साधनदशायां च फलस्य सिद्धत्वात् कर्मापेक्षयापि भक्त्यैव ज्ञाने अधिकोपकारकरणाच्च ॥ ५९ ॥ We praise कालिदास, Shakespeare and other poets, for being able to understand and vividly describe the various fine subtle emotions of the human heart, but so long as these emotions emanate from the senses, they are opposed to the मोक्षमार्ग, because all attachment is to be cut asunder by असङ्गशस्त्र.* But when we learn from उपनिषद्s that God is रस as opposed to लौकिकइन्द्रियजन्यविषय, that रस is अलौकिक and नित्य as opposed to विषय which is अनित्य, सदोष, अल्प and घातक, we begin to have a glimpse of “नित्य नौतन नित्यलीला श्रुति न पावे पार” “क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः।” We can then and then only appreciate रासलीला of श्रीमद्भागवत, जयदेव's गीतगोविन्द, नृसिंहमहेता's बाललीला, सुरत संग्राम, चातुरी षोडशी, दानलीला, राससहस्रपदी, शृङ्गारमाला, and हिंडोलापद, श्रीविठ्ठलेश्वर's शृङ्गाररसमण्डन, and poems and कीर्तनs of सूरदास, परमानन्ददास and other अष्टसखाs. Mere imagination and passion-play have no deeper foundation, and hence Plato as well as श्रीमद्वल्लभाचार्य have rightly discarded poetry from their philosophy. तैत्तिरीय is one of the most important उपनिषद्s as it narrates फल. The reader must carefully study it.† From the four पुरुषs-अन्नमय, प्राणमय, मनोमय and विज्ञानमय, it leads us finally to the आनन्दमयपरमात्मन्, and the enjoyment of सर्वान् कामान् with this विपश्चित् ब्रह्मन् is the crowning glory of the soul. This रसरूपता is again described in the तामसप्रमेयप्रकरण, viz., 12 to 18 अध्यायs of श्रीमद्भागवत दशमस्कन्ध. This रसरूपता is *Cf. देहाध्यासवतः सर्व तु विषयव्यावृत्तकौतुकः । &c. † तैत्तिरीयोपनिषद् with भाष्य by जयगोपालभट्ट is published by Mr. Teliwala. आनन्दमयाधिकरणभाष्य may also be read with advantage. 2354