सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2493, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2493

again clearly described in the verse मल्लानामशनिः ( १०. ४०. १७. ) where all the ten रसs including the भक्तिरस are mentioned. That कृष्ण Himself is this रसफल and परब्रह्म is clear from the three distinguishing characteristics given in श्रीमद्भागवत viz; जृम्भालीला, मृत्स्नाभक्षणलीला and दामोदरलीला. In the first two, He shows all the ब्रह्माण्डs in His mouth, including the sun, the moon, stars etc., which is shown by no other अवतार, it being peculiar to ब्रह्म only, and in the third, He, in the form of a child, could not be bound by any length of ropes, because they were all within Him, He alone being Immeasurable. Here श्रीवल्लभाचार्य says:—(भागवत १०-९. १३-१९)

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ १३ ॥ तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोदूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥ तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्यङ्गुलोनमभूत् तेन सन्दध्वेऽन्यच्च गोपिका ॥ १५ ॥ यदासीत् तदपि न्यूनं तेनान्यदपि सन्दधे । तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् ॥ १६ ॥ एवं स्वगेहदामानि यशोदा सन्दधत्यपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥ स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्वबन्धने ॥ १८ ॥ एवं प्रदर्शिता ह्यङ्ग हरिणा भृत्यवश्यता । स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥

शुकोऽपि तां दूषयन्निव बन्धाभावे परमार्थतो युक्तिं प्रदर्शयति न चान्तरिति, भगवति बन्धाभावो द्वेधापि भवति, भगवत्स्वरूपविचारेण बन्धनसाधनस्वरूपविचारेण च, तत्रादौ स्वरूपं विचार- यति । बन्धनं हि कार्यद्वयं सम्पादयति बहिर्निरोधमन्तस्तापं च, तत् तस्यैव भवति यस्यान्तर्बहिर्भावो भवति, भगवान्स्तु पूर्णः सर्वं व्याप्य तिष्ठतीति न कस्मादपि भगवानन्तर्भवति, निरवयवत्वाच्च न कोऽपि तस्य परिच्छेदकः, चकारादन्तःशब्दव्यवहार्य आकाशेतः स शब्दोऽपि भगवति न प्रवर्तत इत्युक्तम् । अन्तर्यामि- ब्राह्मणे सर्वान्तरो भगवानुक्तो न तु भगवतोन्तरं क्वचित् । सर्वान्तरः केनान्तर्भावमापद्येत ? आधार- त्वे तु नान्तरभावना, रूपादिषु तथोपलब्धेः । न हि फलस्यान्तःस्वरूपं तिष्ठति बीजवत्, तथा सत्यदृश्यः स्यात्, अतो न केनाप्यंशेन भगवतोन्तरमस्ति, नापि बहिः, व्यापकत्वात्, बहिःस्थित एवा- काशोन्तस्तिष्ठतीति नाकाशाद् बहिरस्ति किञ्चित् । अनेनान्तःकरणे खेदो बहिरावरणं वा नास्तीत्युक्तं । किञ्च बन्धनं हि वेष्टनात्मकं, तद् दिग्विभागे सति भवति, निरवयवस्यानिरूप्यस्य स्वत एव भासमानस्य ज्ञातृज्ञेयभावतिरोधायकस्य केनाप्यंशेन पूर्वभावोपरभावो वा न सम्भवति । अनेनैव दक्षिणोत्तरभावा अपि परिहृताः । सर्वत्र स्थितः पूर्वापरभावमेव न मन्यते, अतः स्वरूपकृता वा विकृता वान्तरादिधर्मा भगवति न सन्तीति न बन्धसम्भावना । साधनस्वरूपविचारेणापि न भवतीत्याह पूर्वापरमिति रज्ज्वादीनां पूर्वभागे परभागे चायमेव वर्तते, तत्र यशोदैव प्रमाणं, भगवति सर्वं दृष्टवती यतः, 2355