अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2494, कुल 2600 में से
संदर्भ में पढ़ेंसर्वस्यापि भगवान् बहिरपि भवति व्यापकत्वात्, अन्तरपि भवति सर्वान्तरत्वात्, चकारात् स्वरूप- मपि । किञ्च जगतो य एतावान्, यतो जायते गच्छति चेति जगत्, यदि भगवानेतावन्न स्यात् कथं जगद् भवेत् ? पूर्वभावाभावे न भवेत् परभावाभावे न गच्छेत्, जगतश्चेद् भगवान् बहिर्न भवेद् जगति गच्छति गच्छेद, यदि सर्वान्तरो न भवेज् जगदिति विशिष्टं सर्वप्रतीतिसिद्धं न भवेत्, अन्तःस्थितभगवद्धर्मैरेव जगतो विवक्षितधर्मवत्त्वात् । किञ्च यो जगत्, न हि स्वात्मना स्वयं बद्धो भवति, तथा सति बन्धकानां वैयर्थ्यापत्तेः । किञ्च जगन्मयोयं सर्वमेव जगद् व्याप्य तिष्ठति, एतदाज्ञयैव जगत् कार्यं करोति, ततः कथमयं स्वबन्धने जगत् प्रेरयेत् ? अतो न केनापि प्रकारेण भगवतो बन्धनमस्तीति निश्चिन्ता भक्ताः ॥ १३ ॥ तादृशं योन्यथा विचारयति स निष्फलप्रयासो भवतीति तां दूषयन्निव तस्याप्यज्ञानमाह तमिति, तं पुराणपुरुषोत्तममात्मजं स्वशरी- राजातं मत्वा दाना बबन्धेतिसम्बन्धः । देहस्तु प्राकृतस्तस्या इति तज्जातः सुतरां प्राकृतो भवति । ननु क्वचिन् महान्तोपि पुत्रा जायन्ते देवादयोपि ततो लोके कारणवैलक्षण्यस्यापि दृष्टत्वात् कथमात्म- जत्वे तथा कर्तुं शक्यत इति चेत् तत्राहाव्यक्तमिति, न केनाप्यंशेन व्यक्तं, ये हि महान्तो भवन्ति ते स्वधर्मान् प्रकटीकुर्वन्ति यथा भरतादयः, भगवान्स्तु तथा न करोतीति प्राकृतबुद्धिस्तेषां दृढा, मध्यमावस्थानामेव तथा करणं न तु परमकाष्ठां गतस्य । किञ्च यदि गुप्त एव संस्तूष्णीं तिष्ठेत् तथापि सन्देहः सादन्यवाक्येन वा माहात्म्यं जानीयुः, प्रत्युत भगवान् विपरीत- धर्मान् बोधयत्यतः कथं प्रतीतिरित्याह मर्त्यलिङ्गमिविति, मर्त्यस्यात्यन्तप्राकृतस्य लिङ्गानि यस्मिन्निति, तस्यैव स्वरूपं गुणांश्चेष्टां च प्रदर्शयतीत्यर्थः । ननु तथाप्यत्यन्ताभिज्ञा यथा नटं परिचि- न्वन्ति तथा सर्वविलक्षणानन्तगुणवत्तादानन्दमयत्वाच्च कथं न ज्ञायत इत्याशङ्कयाहाधोक्षजमिति, अधोक्षजं ज्ञानं यस्मादिति, न हि भगवान् गुणा वा कस्यचिदपि चक्षुर्गोचरा भवन्ति, इच्छा तु नास्तीत्यवगम्यते विरुद्धप्रदर्शनात् । किञ्चेयं च यशोदा गोपिकातिप्राकृतरूपा, अतोन्भिज्ञा कथं जानीयात् ? उलूखलोपरि पादं दत्त्वा भगवान् क्रीडति, अग्रेञ्च नाभिर्भवति, अतो भगवान् गोकुलस्थितमुलूखलं स्वाश्रयत्वेन ज्ञापयितुमत्र बन्धनं कारितवान् गोपिकायास्तु बुद्धिर्यान्यत्र न गच्छतीति । दाम पशूनां बन्धकं, ननूलूखलदामहस्ताधिष्ठितेदेवानां कथं तूष्णीम्भावः ? तत्राह प्राकृतं यथेति, तेषामपि बुद्धिर्भगवता तथा सम्पादितेति ॥ १४ ॥ अयं देहाकारेण भासमान एव भगवान् सच्चिदानन्दरूप इति गुणोपसंहारन्यायेन “न चान्तर्न बहिर्यस्ये”त्यादिधर्मा अस्यैवेति ज्ञापयितुं बन्धनेप्युपायं वदन् भगवान् साम्बद्धो जात इत्याह तदामेति, भगवता स्वस्मिन् दोषद्वयं प्रदर्शितं तत्पुत्रत्वमपरा- धश्च, तदा रज्जुरन्तर्बहिःस्थितं भगवन्तं तिरोहितं मत्वा वेष्टनं कृतवती स्वयं बहिःस्थितान्तःस्थितस्य भगवतः, तदाह तद्दाम बध्यमानस्येति, अन्यथा बहिरपि रज्जुर्न भवेद् वेष्टकमपि न भवेत् । तथापि परितो वेष्टनरूपा न जाता, पूर्वापरयोर्भ- गवत एव सत्त्वात्, अतो द्व्यङ्गुलं न्यूना जाता । लोकपरिमाणे प्रथमपरिमाणमङ्गुलिः, तन्न प्रथमातिक्रमे कारणाभावादल्पवैलक्षण्ये महतो योजनायामाश्चर्यमपि भवतीति द्व्यङ्गुलोनमेवाभूत् । रज्ज्वाद्यन्तयोर्यो भगवान् स एवायं क्रोडीकृतः, न तु ततः केनापि धर्मेण भिन्न इति ज्ञापयितुमेवमाह व्यापकत्वस्य दर्शनार्थमेव तिरोभावाद् रज्जुस्थूलतायामपि नोदरस्थौल्यं, प्रतिबिम्यादौ तथोपलंम्भेः, अतो वैलक्षण्याज्ञानात् तेनान्यदपि दाम तावत्प्रमाणकं सन्धौ योजितवती। चकाराद् विसदृशमपि ततोपि स्थूलम्। नन्बङ्गुलद्वये न्यूने किमिलेतावद् योजितवती?