सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2498, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2498

२ परिशिष्टम् । वस्तुनिर्देशात्मकमङ्गलार्थमत्र पुष्टिरूपं स्वयं ज्योतीरूपं ध्यानविषयत्वेनोक्तं भविष्यति । परं विशेष्यम् । एतट्टीकायामपि ज्ञेयम् । परमभिधेयमिति परं विशेष्यम् । कथंभूतं परं तच्चित्रितयात्मकमुभयं साक्षिकं रूपं चेति त्रितयात्मकम् । कथंभूतं साक्षिकं रूपं वल्लभं अत्यन्तानुग्रहभाजनरूपम् । वल्लेनाज्ञान- संवरणेन भातीति तं वल्लभम् । सदा वल्लभं नाम यस्येति वा । 'वाचारम्भणं विकारो नामधेय'मित्यन्यत्रेति ज्ञापनाय । कथंभूतं तदुभयं रसमयो बभौ हीति । कस्यां सत्यामिति चेन्न; उभयोः संसृष्टौ सत्याम् । कथं रसमयत्वमित्यत आहुः कृष्ण इति । कृष्णो हि प्राचीविशत् । किम् । 'तदेव कदाचित्पर- मसौन्दर्यं स्वगतं (प्रकटं) करिष्यामीति साकारं प्रादुर्भूतं सच्छ्रीकृष्ण' इत्यादिबन्धायुक्तदिशा साक्षात्पु- ष्टिद्रसामृतप्रेप्सुव्रजवररत्नकदम्बेषु स्वलावण्यामृतदित्सयानिर्वचनीयानन्दरसमयः श्रीकृष्णः प्रादुर्बभूवेति सौन्दर्यम् । कथंभूतं सौन्दर्यम्, निजस्य स्वस्य हृद्गतं मनोगतं, पुनः कथंभूतं, स्त्रीपुंभावा- त्मकम् । अस्ति भावद्वयं भगवति, पुंभावः स्त्रीभावश्चेति । एवमेव श्रीमुख्यस्वामिन्यामपि भावद्वयम् । तदुक्तं 'यथा हि सर्वभावात्मा कृष्णः सापि च तादृशी' इति श्रीहरिरायैः । ब्रह्मत्वे सर्वभावात्मत्वं 'सत्यं ज्ञानमनन्तमानन्दं ब्रह्म' 'सत्यं विज्ञानमानन्दं ब्रह्मेति' श्रुतिभ्याम् । यद्यपि द्वितीया श्रीयमुनाजचित्तत्परा तथापि तत्पौराणं मतं, श्रौते मते ब्रह्मानन्दत्वं यत्र तत्र श्रुतिप्रवृत्तिः । पुनः कथंभूतं प्रकटितं, रसाभासप्रसक्तिः पुंद्वये स्त्रीद्वये चात उभाभ्यां पृथक् स्थितं रूपद्वयं प्रकटितं स्वेच्छया । तद्भावद्वयं श्रीमदाचार्यवर्यस्वरूपम् । तृतीयं साक्षिकं रूपं अनुभवितृ । तथा च 'द्वौ सुपर्णों भवत' इति गोपालतापनीय उक्तौ तावेतौ भवतः । कथंभूतं पुंरूपम् । चः समुच्चये । पुनस्तदन्तरगतं स्वामि- न्यन्तरगतं भगवद्रूपं स्त्रियाः पूर्वमुक्तत्वात् । केति चेन्न, खप्रिये । कदेति चेन्न, सदा । तादृशं रूपं ध्येयम् । 'अभिश्चकार तत्त्वार्थदीपं भागवते मह'दित्यभिरूपभावा भक्तिजन्या मक्तिः स्मरणादिरूपा अत्र । अत्र विरहाग्निः स्वयंज्योतीरूपः खप्रिये यत्सत्यज्ञानात्मकं तत्रानन्तमानन्दं ब्रह्म पूर्णानन्दरूपं स्वगतभक्तविरहशामकं स्वगतसंयोगश्रीमदाचार्यगतविप्रयोगात्मकं येन्श्रीकृष्णः प्रावीविशत्तत्र विरहोद्भिः ज्योतिर्भिः हर्दर्शनौभिः पूर्णानन्दोप्यानन्दमात्रकरपादमूखोदरादिरूपः सर्वेन्द्रियगुणाभासः सर्वेन्द्रियवि- वर्जितश्चातो दर्शनाभिरूपः श्रीमदाचार्यसूक्ष्मदेहः । गर्भोपनिषदि 'दर्शनाग्नी रूपाणां दर्शनं करोती'ति श्रुतिः । त्रिविधात्मस्वात्मोपनिषदुक्तं द्वयमुक्तम् । तृतीयो हि परमात्मान्तरात्मबाह्यात्मसु बाह्यात्मा । गर्भोपनिषदुक्तेषु द्वयमुक्तम् । तृतीये ज्ञानाग्निदर्शनाग्निकोष्ठाग्निषु कोष्ठाग्निस्तद्रूप इतरत्तु विरहाग्निकारणं, तेन कारणविशिष्टे विरहाग्निर्बीजं वृक्षविशिष्टमिव । तथा च भाष्यम् 'सर्वत्र प्रसिद्धोपदेशाद्' इत्यधिकरणस्य ध्यानादिसमाध्यन्तरूपनिदिध्यासनरूपं मनसि सर्वतो निवृत्तव्यापारे स्वयमुपलब्धनिजसुखानुभवरूपं ब्रह्म, इदमेव ब्रह्मज्ञानमिति, स्वयं प्रकाशत्वान्निक्षैव ब्रह्मज्ञानम् । मनसा तज्जननेपि तथा मनसः सत्यज्ञानात्मकत्वेनाक्षरब्रह्मत्वात् । अत एवाधिकरणसम्यन्तं मनःपदमुक्तम् । 'स मानसीन आत्मे'ति- श्रुतावप्येवम् । एवं सति 'यतो वाच' इत्यस्यां पुष्टिश्रुतौ 'आनन्दं ब्रह्मणो विद्वान्' इत्यनेनाप्युक्तम् । पुष्टिजिवस्य तु ब्रह्मोपनिषदि 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुध' इति । 'सूक्ष्मं प्रमाणतश्चे'ति सूत्रभाष्ये उदाहृता पुष्टिश्रुतिः । एतत्रयं ध्यानविषयत्वेनोक्तमितरत्तु ऋतेऽर्थं प्रतीयमानत्वान्माया शरीरादि । यत्तु 'आचार्यचैत्यवपुषा स्वगतिं

१ विप्रयोगप्रधानेच्छयाविर्भूतम् । अन्तर्विप्रयोगे बहिःसंभोगे आविर्भावाङ्गीकारात् सुबोधिन्यादौ । २ कर्मेदम् । ३ सूक्ष्मात्मा । ४ परमात्मा ज्ञानाग्निरूपः तत्र परमात्मा आत्मोपनिषदुक्तो ज्ञानाग्निः गर्भोपनिषदि । ५ पश्यत्यनेनेतिदर्शनं सूक्ष्मात्मा गर्भोपनिषद्युक्तः । ६ अन्तर्यामी । ७ आत्मोपनिषदि आत्मत्रेविघ्याद् गर्भोपनिषद्यग्निन्नैविध्यादेतद्वयम् । अद्वतीत्यभिः । 2360