सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2503, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2503

प्रकृतमनुसर्यतेऽधुना, तद्रूपम्, सत्पुण्डरीकनयनमित्याद्युक्तं गोपालतापनीये किन्तद्रूपमिति प्रश्न एतदुत्तराद् व्याख्याताश्चैताः श्रुतयः प्राक् ह्यनुक्रमशः । गुणातीतं गीतायाम् 'नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छती'ति । यद्वा 'निर्गुणं गुणभोक्तृ चे'ति निर्गुणं 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्युक्तं गुणभोक्तृ, 'आनन्दमात्रमिति यद्वदन्तीह पुराविदः' इति वाक्योक्तमेतद्रूपद्वयम् । हि निश्चयेन सदैवेत्याहुः सदैव हीति । अयमर्थः । नात्र ज्ञानविषयं ब्रह्मोच्यते, ज्ञानं च फलात्मकं 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' 'ब्रह्मविदाप्नोति परं' 'तमेव विदित्वातिमृत्युमेती'त्यादि- श्रुतिस्मृत्युक्तम् । ततश्च तृतीयाध्यायस्य 'अम्बुवदग्रहणाद्'धिकरणोक्तं ब्रह्म प्रतिपिपादयिषित