सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2504, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2504

फलवतः प्रतिज्ञां करोति तच्च चिन्तनमुक्तविधम् । अत्रात्मानन्दो व्रजरत्नात्मक इति श्रीविट्ठलनाथ- दीक्षितगोस्वामिटीकायामतोत्रात्मानन्दः स पूर्वोक्तः तथा च भावो भक्तिर्भूमा 'आनन्दमात्रमिति यद्वदन्तीह पुराविद' इत्युक्त आत्मनि सत्यज्ञानानन्तानन्दे स्वरूपलक्षणाक्रान्ते यस्य 'यतो वाचो निवर्तन्त' इति श्रुत्युक्तस्य तद्भावात्मकं तस्य भावस्तदात्मकत्वं तस्माद् इति भावात्मकत्वादित्यस्यार्थः । भावात्मकस्य भक्तान् प्रत्येव ज्ञापनात् । अत्र व्याख्यायमानग्रन्थेऽग्रे 'सर्वत्र पश्यद्भिः पुरुषोत्तम'मित्यत्र सर्वत्रपदम् ! एकादश एकोनत्रिंशाध्याये 'लघुखमार्गवक्ता चे'ति पुरुषोत्तमसहस्रनाम्नि स्तोत्रे लघुखमार्गवक्तृत्वेनोक्तस्य श्रीकृष्णस्य वाक्यमृते 'सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया । परिपश्यन्नुपरमे'दिति सर्वपदम् । तदपि सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितब्राह्मणवाचकसर्वपदवद् एतेन व्रजरत्नपदरहितेन सामान्येन ग्रन्थेन भक्तिमार्गस्य निर्गुणत्वं समर्थितम् । स्वाधिकारे तु श्रीगोस्वाम्युक्तो विशेषोपीति । चकार ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्यशृङ्गारादिवाचकपदानुकर्षकः 'स्लोरमो लुक्' तथा च ऐश्वर्य- वीर्ययशःश्रीज्ञानवैराग्यशृङ्गारषट्कारार्थध्येयमित्यनेनान्वेति । एवञ्च तद्रूपमैश्वर्यवीर्ययशःश्रीज्ञानवै- राग्यशृङ्गारमपि ध्येयमिति सिद्धम् । अन्यथा नेति अन्यथापदात्तृतीयाया लुक् अन्येन प्रकारेण तद्रूपभावान्येनैश्वर्याद्यान्येन च प्रकारेण न ध्येयम् । अयं भावः 'योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणे'ति श्रुतेस्तद्रूपभावाद्यतिरिक्तोन न प्रतिपदनम् । अनेन प्रकारेण तु प्रतिपदनं गोपालतापिनिये श्रूयते ब्राह्मणस्य तथाहि 'मुनयो ह वै ब्राह्मणमूचुः कः परमो देव' इत्यादि तस्योत्तरं 'तदुवाच ब्राह्मणः श्रीकृष्णो वै परमं दैवत'मित्याद्यभिधाय 'गोपवेष- मभ्रामं तरुणं कल्पद्रुमाश्रितम्' तदिह श्लोका भवन्ति 'सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञानमुद्राम्रं वनमालिनमीश्वरम् । गोपगोपाङ्गनावीत'मित्यादि । तद्रूपप्रश्नोत्तरम् 'मद्य जानाति ब्राह्मणः' इति ब्राह्मणपदव्युत्पत्तिः । एवमैश्वर्यभावादि बोध्यं श्रुतिषु हीति 'तदोषधिविद्यायां वैराग्यमित्येवं सप्ता- ह्केषु बोध्यं' नवार्थामुक्तं च । एवं ध्येयमित्यनेन स्मृतिविषयं वस्तुक्तमत्र स्मृतिस्तु सिद्धान्तमुक्ता- वल्यां संसारदुःखन्निवृत्तिर्ब्रह्मबोधनलक्षणा तनुवित्तजसेवावान्तरफलत्वेन निर्दिष्टा ततः सेवाफलाख्य- ग्रन्थे सेवायाः फलत्रयमुक्तं तेषु तदीयत्वं भगवत्सेवोपयोगिदेहो वैकुण्ठादिष्वित्येवमुक्तं मुख्यमिति । तत्साधनमाहुः लीलेत्यादि । लीलारूपैश्च तत्सेव्यं तदीयत्वाय सर्वदा । एतत्संसेवनाद् ब्रह्मभूतो भक्तिं लभेत्पुनः ॥ १६ ॥ लीलाश्चैश्वर्यवीर्ययशःश्रीज्ञानवैराग्यशृङ्गाररूपाणि, रूपाणि द्वारकानाथजित्सूनुगोविन्दजित्कृत- भावनोक्तशकटभञ्जनौस्थानिकेलीलादिषु वात्सल्यादिरूपाणि रूपाणि च येषां तैः रूपैः श्रीनवनीत- प्रियजिच्छ्रीमथुरानाथजिच्छ्रीविठ्ठलनाथजिच्छ्रीद्वारकानाथजिच्छ्रीगोकुलनाथजिच्छ्रीगोकुलचन्दमोर्जिश्चीम- दनमोहनजिच्छ्रीबालकृष्णजिदादिरूपैः । चकारेण धर्मिरूपेण श्रीगोवर्धननाथजिद्रूपेण तद्रूप सेव्यम् । तनुवित्तजसेवाविषयं कार्यं तदर्हत्वात् । सेवाविषये ब्रह्मग्सतावद्रूपत्वे साधनाध्यायतृतीयचरणे 'आनन्दादयः प्रधानस्ये'ति सूत्रं स्पष्टताय । पूर्णानन्दैश्वर्यादयः प्रधानस्य धर्मिणः श्रीगोवर्धन- नाथस्य ब्रह्मणो धर्मा इति भाष्यकृत् । श्रुतयस्तु सर्ववेदान्तप्रत्ययसूत्रेऽथर्वणोपनिषत्स्था 'गोप- वेषमभ्रामं तरुणं कल्पद्रुमाश्रितम्' तदिहश्लोका भवन्ति 'सत्पुण्डरीकनयन'मित्याद्याः ध्वनितार्येमास्तत्रैव भाष्ये 'कविद्रोगुकुलवृन्दाकाननसञ्चरोह्यरूप'मित्यादौ क्वचित्पदस्य शक्तिः गोपालतापिनिये ध्त्रनिरुक्तासु १ तात्पर्यम् ।

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2504, कुल 2600 में से · BharatKosha