सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2505, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2505

श्रुतिषु । गीता तावत् त्रयोदशेऽध्याये ज्ञेयं प्रस्तुत्य 'सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुख' मित्यादि 'सर्वेन्द्रियगुणाभास'मित्यादि च । अत्रैश्वर्यादयो भगवत्पदसमानाधिकरणज्ञेयगोपवेषपदाभ्यामुन्नेयाः । तल्लक्षणानि गुणप्रकरणस्य सुबोधिन्यामग्रे च प्रपञ्चनीयानि । सेवायां तावद् । 'गतेरर्थवत्त्वमुभयान्यथा हि विरोध' इति सूत्रे । अत्र सूत्रेऽस्मिन् मार्गे श्रवणादिभिः पापक्षये प्रेमोत्पत्तिस्ततो मुक्तिरिति भाष्यात् । सहकार्यन्तरविधिपक्षेण तृतीयं 'तद्वतो विद्यादिव'दिति वा सूत्रम् । 'सर्वथापि त एवोभयलिङ्गा'- दिति साधनाध्यायस्थं वा सूत्रम् । ननु सेवात्र दास्यं तत्कथमत्र श्रवणादिषु प्राथम्यं 'तत्सिद्धौ तनु- वित्तजे'त्यर्हतीति चेन्मैवं 'आत्मेति तूपगच्छन्ति ग्राहयन्ति चे'ति सूत्रस्य भक्तिमार्गेऽङ्गीकृतास्तु साक्षा- त्प्रकटे पुरुषोत्तमे

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2505, कुल 2600 में से · BharatKosha