सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2507, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2507

परिशिष्टम् । ११ कामान् सह ब्रह्मणा विपश्चिते'ति । गीता तावत् 'सूक्ष्मत्वात्तदविज्ञेय' मिति ज्ञेयनिरूपणे त्रयोदशेऽध्याये । 'सूक्ष्मं तु प्रमाणतश्च तथोपलब्धे'रिति सूत्रे पुष्टिमार्गीयं तत्त्वं सूक्ष्मं दुर्ज्ञेयमित्यर्थ इति भाष्यम् । नापि सर्वथा दुर्ज्ञेयम् । 'तानि परे तथा ह्याहे'ति सूत्रे श्रीगोकुले तानि वस्तूनि सन्तीत्युक्तेः । सर्व- सामर्थ्यसहितस्य सर्वत्रैवाखिलार्थकृत ईश्वरस्यात्यन्तानुग्रहेण प्राप्ता भक्त्या कृष्णलीलासु प्रवेशोत उक्तमसंशयमिति । स्वभावतो दुष्टस्य जीवस्य जगत्कारणकारणे तत्रापि लीलानिविष्टे प्रवेशो भविष्यति न वेति संशयो भवत्वेव तदभावोऽसंशयः क्रियाविशेषणत्वान्नपुंसकत्वम् । सगुणं ब्रह्म सर्व- मित्याशङ्क परिहरन्ति स्म । नात इत्यादि, अतो न सगुणं पूर्वमुपपादितत्वात् । अत्र सूत्रं तृतीया- ध्यायद्वितीयपादे 'परमतः सेतून्मान सम्बन्धभेदव्यपदेशेभ्य' इति सूत्रेणातो देशकालवस्तुरूपपरि- च्छेदाश्चतुर्विधपरिच्छेदरहितमन्यत्किञ्चिदस्तीति प्रतिपत्तव्यमित्येवं प्राप्ते 'सामान्यात्त्वि'ति । श्रुतिस्तावत् 'न तत्समश्चाभ्यधिकश्च दृश्यते' इति । गीता 'ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यत' इति । साकारव्यापकं रूपमुपसंहरन्ति स्म एतद्रूपमित्यादि । एतद्रूपं समास्थाय श्रीवल्लभसुनिश्चितम् । सात्त्विकैर्भगवद्भक्तैः स्थेयं कृत्वा दृढं मनः ॥ १८ ॥ समीपतरावर्त्तिब्रह्मरूप उक्तप्रकारेण सम्यङ्नियमपूर्वकं आसमन्तादर्थे शब्दे शङ्काराहित्येन स्थापयित्वा स्वमनसीति शेषः । श्रीवल्लभेत्यादि । भाष्यसमाप्तौ 'जानीत परं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरसुरांस्तानहो बुधाः' ॥ 'नानामतध्वान्तविनाशनक्षमो वेदान्तसिद्धान्तविकाशने पटुः । आविष्कृतोयं भुवि भाष्यभास्करो मुधा बुधा धावत नान्यवर्त्मसु' इति ॥ निबन्धे शास्त्रार्थसमाप्तौ 'अर्थोयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः । अन्यैश्च शास्त्रवचनैः सह तत्त्वसूत्रैः निर्णीयते सहृदयं हरिणा सदैव' ॥ श्रीभागवतार्थसमाप्तौ च 'श्रीमद्भागवतं समस्तनिगमन्त्यायैकतत्त्वात्मकम् नानाभ्रान्तितमःकपाटपिहितं सन्तुष्टये सर्वथा । नामूदित्यवगत्य निश्चितपदैरुद्दीप्तदीपाकृतिं श्रीमद्भागवतप्रदीपमधुना चक्रे मुदा वल्लभः ॥' दशमपूर्वार्धसमाप्तौ 'इत्येवं भगवल्लीला कृष्णविश्वासदायिनी । निरूपितातियत्नेन कृष्णपादाम्बुजाश्रया' इति । अत उक्तं श्रीवल्लभैः सुनिश्चितमिति सूत्रश्रुतिगीताभिर्भाष्यशास्त्रार्थनिबन्धश्रीमद्भागवतप्रदीप- दशमपूर्वार्धादिभिरिति शेषः । सात्त्विकैरिति । इदं विशेषणं 'सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः । भवान्तसम्भवा दैवास्तेषामर्थे निरूप्यत' इति निबन्धात् । दृढं मनः कृत्वा स्थेयमिति मनसश्चञ्चलत्वेन 'लोके तदादरो मुख्यः फलं वैमुख्यतस्तमः' इत्यत्रानादरेऽन्यत्र कामेऽन्यच्च 'जीवाः स्वभावतो दुष्टा' इति तेषामन्यत्र सङ्कल्पे किञ्च बहुष्वाचार्येषु सत्सु किमेतत्समुचितमुतान्यैराचार्यैः सुभणितमित्येवमत्र विचिकित्सायां च सत्यामदृढं मनो भवति तद्व्यावृत्त्यर्थं दृढमिति विशेषणम् । दृढत्वं च मनसो मनसि मीमांसानिर्णयरूपं 'असन्दिग्धोपि वेदार्थः स्थूणाखननवन्मतः । मीमांसानिर्णयः प्राज्ञै दुर्बुद्धेस्तु ततो दृढ' मिति भाष्यात् । मीमांसानिर्णयश्च मनसि । 'कामः सङ्कल्पो विचिकित्सेत्यारभ्य धीर्भीरित्येतत्सर्वं 2369