अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2508, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete and accurate line-by-line transcription of the Sanskrit text from the image into clean Markdown in Unicode Devanagari:
मन एव' इति श्रुतेः । मीमांसानिर्णयवतो निबन्धस्य 'लोक' इत्यादिवाक्यस्यापि प्रसङ्गाद्दर्शनेन तत्र फलवैमुख्यस्मारणान्मायावादादितः कामनिवृत्तिस्तस्य । 'जीवाः स्वभावतो दुष्टाः' तेषां दोषाणां 'श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यती'ति वाक्यान्मीमांसानिर्णयवतः श्रवणाद्यावश्यकमिति निवृत्त्यान्यत्र सङ्कल्पनिवृत्तिः । 'विप्रतिषेधे पर'मिति सूत्रेण श्रीमदाचार्यभणितं सुभणितमिति निश्चयः । सर्वेभ्य आचार्येभ्यः एषां परत्वात् । तथा च तस्यैव सूत्रस्य वृत्तिः 'तुल्यबलविरोधे परं कार्यं स्या'दिति । अत एव कस्याश्चित् काञ्चित्प्रति वचनं पूर्वं गृहे जारः समायातः पश्चात्पतिस्तावभौ दृष्ट्वा क्रमे सन्दिहाना 'स्मर सखि पाणिनिसूत्रं विप्रतिषेधे परं कार्य' मिति । एवं विद्वद्युक्तिमुपगच्छतो