सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2510, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2510

सर्वे संशयास्तु उक्तप्रकारं प्रधान्यप्रकारं वा सर्वात्मभावः साधनं ज्ञानादि वा शब्दप्रत्यक्षानुमानोप- मानानि प्रमाणं 'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि, समाधिभाषा व्यासस्य' प्रमाणं वा फलं वा भगवान् वाऽविद्यानिवृत्तिर्वा । आचार्या इमेऽन्ये वात्मानः । इति स्वरूपवर्णनम् । स्वरूपस्वरूपं प्रस्तोतुं मङ्गलं स्मरन्ति । जयतीत्यादिना । 'जयत्याचार्यपादाब्जररेणुर्यल्लाभतः स्वयम् । तुरीयं पुरुषार्थं हि प्रीतः कृष्णः प्रयच्छति ॥ १ ॥ यद्रेणुलाभतः यो यस्य चरणरेणुं वाञ्छति स तद्भवति तद्योग्यो वा भवतीति वा । तथा च यथाऽऽचार्येभ्यः पुष्टिमर्यादाभक्तिमार्गीयमोक्षं प्रयच्छति मोक्षदातृत्वेऽपि प्रीतस्तत्रापि कृष्णः सदानन्दो न तु विभूतिरूपस्तत्रापि स्वयं न तु धर्मरूपेण तथास्मभ्यमपि मोक्षं दास्यति प्रीतः कृष्णः स्वयम् । किञ्च ते यथाऽदेयदानदक्षास्तथा वयमपि भविष्याम इति भावः । स्पष्टं चेदम् 'आसामहो चरणरेणु- जुषामहं स्या'मित्यत्र सुबोधिन्याम् । 'अनुव्रजाम्यहं नित्यं पूयेयेत्यंघ्रिरेणुभि'रित्येकादशचतुर्दशे पापा- भावे चरणरेणुः कारणमुक्तमेवं च चरणरेणुलाभतः पापाभावः ततः प्रीत इति मर्यादोक्ता। पापाभावस्य भक्तिकारणत्वात् । संस्कृतदेहे तुरीयपुरुषार्थसिद्धयर्थं साधनमाहुः शब्देत्यादि । शब्दार्थयोर्नित्यता तदुक्तिरात्यन्तिकी हरौ । उदेति श्रीवल्लभतिनामोच्चारणमात्रतः ॥ २ ॥ श्रीवल्लभतिनाम प्रतिपादकं श्रीश्च श्रीश्च श्रीश्च श्रीश्च श्रीश्च श्रीश्च श्रियः पद । पदश्रीयुक्ताः वल्लभाः श्रीवल्लभास्तेषां नाम श्रीवल्लभेतिनाम प्रतिपादकं प्रतिपाद्यंच प्रियत्वरूपश्रीवल्लभत्वविशि- ष्टम् । एतयोः शब्दार्थयोर्नित्यता तदुच्चारणमात्रतोऽनियमः सर्वासा'मिति सूत्रप्रमाणेनात्यन्तिकी १भक्तिरुदेति । केति चेन्न हरौ । हरिर्मनो यस्य 'मनसो ह्येव खल्विमानि भूतानि जायन्त' इति प्रथम- चरणं प्रतिमारूपमपीति तत्रेत्यर्थः । यद्वा जिज्ञासाधिकरणोक्तनिर्गुणब्रह्मणः सकाशाज्जगदिति प्रथमचरणं प्रतिमारूपमपीति तत्रेत्यर्थः । मानसीसेवारूपाऽऽत्यन्तिकी भक्तिः । तथा च पञ्चाभिविद्यासंस्कृतदेहेभ्य इव चरणरेणुसंस्कृतदेहेभ्यः आत्यन्तिक्या भक्त्या तुरीयं पुरुषार्थं स्वयं प्रयच्छतीत्युक्तम् । तुरीयं पुरुषार्थं स्वयमुक्तं प्रपञ्चयामासुः आनन्देत्यादिना । 'आनन्दमयतानन्दसन्दोहो यत्प्रवेशतः । आनन्दरूपे भवति स वै श्रीवल्लभः प्रभुः ॥ ३ ॥ यद् येभ्यः उक्तगुरुपसत्यादिसुखद्वाराऽऽनन्दमयता जीवानां भवति 'आनन्दरूपे प्रवेशतः आनन्दस सन्दोहः समूहो भवति जीवीयसच्चिदानन्देष्वानन्दरूपे भवति स श्रीवल्लभः प्रभुः समर्थ इत्यर्थः । प्रभु साकारव्यापकं निरूप्य तद्रूपं निरूपयाम्बभूवुः सिद्धिवेत्यादिना । सिद्धिदा यादृशी प्रोक्ता जीवानां सेवना कृता । तादृशीं स्वीयशिक्षार्थं दर्शयामास वाक्पतिः ॥ ४ ॥ सिद्धिदा एकादशपञ्चदशाध्याये प्रोक्ता । न चैकोनत्रिंशाध्यायोक्तेति कुतो नोक्तमिति शङ्क्यम् । भाष्ये गोपाळतापनीयश्रुतिप्रोल्लेखा 'द्भक्तिरस्य भजनमि'ति श्रुत्युक्तां मुख्यां ग्रहीतुं सिद्धिदे- १. उत्पद्यते । २. आचार्येभ्यः ।