अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2511, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। १५ ह्याद्युक्तेः । सा पश्चान्मानसिकसाधनत्वादुक्तव्येदानीं संसारदुःखनिवृत्तिब्रह्मबोधनमानसीसेवारूप- सिद्धिदा सिद्धान्तमुक्तावल्यां यादृशी प्रोक्ता तस्याः साधनभूतायाः कायिकीत्वात् तावत्तद्विषयीभूतं प्रतिमामाहुः षड्गुणैरित्यादि । षड्गुणैः सहितो धर्मी कृष्णः सेव्यः परः प्रभुः । गुणाश्च भगवद्रूपाः रूपलीलाविभेदतः ॥ ५ ॥ षड्गुणैः सहितो धर्मीति । अत्र 'आनन्दादयः प्रधानस्ये'ति सूत्रम् । 'गोपवेशमभ्रामं तरुणं कल्पद्रुमाश्रितं तदिह श्लोका भवन्ति सत्पुण्डरीकनयन'मित्यादिश्रुतिः । इयमस्मिन् सर्ववेदान्त- प्रत्ययाधिकरणेस्ति, राजविद्याराजगुह्ययोगाध्याये 'ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेने'ति तथा 'बहुधा विश्वतोमुखमि'ति गीता । कृष्णः सदानन्दः परः पुरुषोक्षरात्परः प्रभुः सर्वसामर्थ्यसहितः । 'सर्वसामर्थ्यसहित' इतिकृष्णाश्रयात् । गुणाश्च पूर्णानन्दैश्वर्यवीर्यादयः । भगव- द्रूपा इति । सेव्या इत्यन्वयः । 'प्रकाशाश्रयवद्वा तेजस्त्वा'दिति सूत्रम् । 'गोपवेश'मित्यादिश्रुतिः । 'सत्यं ज्ञानमनन्तं ब्रह्म' 'सत्यं ज्ञानमनन्तमानन्दं ब्रह्म' 'अरसं सर्वरसो निर्गुणः सर्वशक्ति'रिति श्रुतयः । शक्तयो हि पूर्णानन्दैश्वर्यवीर्ययशः श्रीज्ञानवैराग्याण्यपि । 'निर्गुणं गुणभोक्तृ चे'ति 'ज्योतिषामपि तज्ज्योति'रिति 'सर्वतः पाणिपादं तत्', इति 'सूक्ष्मत्वात्तदविज्ञेयं'मिति, 'सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जित'मिति, 'निर्गुणं गुणभोक्तृ चे'ति यथायोग्यं श्रुतिपदानुकूला गीता । रूपलीलाविभेदत इति तज्ज्ञात्वेत्यने- नान््वयः । रूपाणि श्रीपञ्चकयुक्तगोवर्धनाधीशैश्वर्यरूपादिरूपाणि । लीलाः 'तदेजति तन्नैजति तद्दूरे तद्वन्तिके' इत्यादिश्रुत्युक्ता निष्प्रतियोगिन्यः । सप्रतियोगिन्यो बाललीलाद्याः । तज्ज्ञात्वेत्यादि । तज्ज्ञात्वा सेवनाकार्येत्येवंरूपविभेदतः । सेवयामास वागीशो बहुरूपाणि वै हरेः ॥ ६ ॥ तद्रूप सर्वत्र प्रसिद्धोपदेशाधिकरणोक्तरीत्या प्रथमपादमपीति ज्ञात्वा । किञ्च 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते'तिश्रुत्या च ज्ञात्वा । 'त्वया ततं विश्वमनन्तरूपे'ति विश्वप्रदर्शनाध्याये गीतया च ज्ञात्वा । सेवना कार्येति हेतोरेवं व