अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2512, कुल 2600 में से
संदर्भ में पढ़ेंशिक्षायां हरिःॐ 'ॐशन्नो मित्रः शं वरुणः शन्नो मवत्वर्यमा । शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः' । 'नमो ब्रह्मणे नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासी'ति ससमित्रादीनुक्त्वा नमो ब्रह्मणे इत्येकत्वपूर्वकं वन्दनमकिरुक्ता । णिमिदा स्नेहने, मेद्यतीति मित्रः 'अमिचिमिदिशसिभ्यः क्रः' इति क्रन् । प्रियते वृणोति वा, वृञ् वरणे, 'क्रूवृदारिभ्य उनन्' । इयर्ति अर्यमा, 'ऋतॄक्षनृपूषन्' इति निपातितः अर्यमा सूर्यः साम वा । इन्दति 'ऋजेन्द्रे'त्यादिना रन् । बृहतां पतिः 'तद्बृहतो'रिति सुदतत्लोपौ । विष्ऌ व्याप्तौ वेवेष्टि 'विषेः किषे'ति नुः । उरु क्रमो यस्य । एष्वेकस्य रूपलीलाविभेदतो ज्ञानमाहुः । गोवर्धनाधीशरूपं मूलरूपानुकारतः । शरणीयं च सेव्यं च भक्तिमार्गानुसारतः ॥ ७॥ मूलरूपं ब्रह्मरूपं देवरूपं तुरीयं तत्त्वं तदनुकरषतः अनुकूल्यधिकरणे 'सर्वोपि पदार्थस्तमेवानु- करोति सूर्य रश्मय इव छाया पुरुषमिवेवं तुरीयं देवं गोवर्धनाधीशरूपमनुकरोती'ति तदनुकारः । कर्म- ण्यपपदे घञ् । ततस्तसिल् । अत्र मूलरूपे सूत्रं 'पुरुषाश्मवदिति चेत्तथापि,' 'अदृश्यत्वादिगुणको धर्मोक्ते'रिति । श्रुतिस्तावत् । 'यत्तददृश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा' इति । 'क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत' इति 'यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः' इति गीता । शरणीयमिति । शरणमार्गो निबन्धे 'जगन्नाये विट्ठलेशे श्रीरङ्गे वैङ्कटेऽथवा, यत्र पूजाप्रवाहः स्यात्तत्र तिष्ठेत तत्परः' इत्यत्र स्वाश्रयप्रकाशनद्वारा स्थितिरूपः । तद्विषयीकार्यम् । सेव्यमिति व्याकृतमिदं पदम् । भक्तिमार्गो हृत्सवादिद्निरूपणे वक्ष्यते तदनुसारस्तदनुसरणं तस्मात् । शब्दात्मको भगवान् निबन्धे भावनान्तरे चास्ति । प्रथमद्वितीयस्कन्धौ चरणौ, तृतीयचतुर्थौ जङ्घे, ऊरू, श्रीहस्तः, स्तनभागौ, हृदयम्, शिरः वामश्रीहस्तः क्रमेण । अथ पीठकभावना । भगवतो भागवतस्य रूपं 'उत्क्षिप्तहस्तः पुरुषो भक्तमाकारयत्युते'ति निबन्धादुक्ताकारणाश्रयो भगवान् रसमर्यादया भावनीयः । 'तस्माच्छ्रीकृष्णमार्गस्थ' इति वाक्यात् । [