अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2514, कुल 2600 में से
संदर्भ में पढ़ें१८ परिशिष्टम् । नवनीतचौर्यं शक्यतावच्छेदकं नवनीतचौर्यविशिष्टनवनीतचोरे शक्तिः । यद्यप्यष्टमी तिथिः रोहिणी- नक्षत्रं वृषराशिरिति न नवनीतचोरपदप्रवृत्तिनिमित्तं नवनीतचौर्यं, तथापि धनुष्कृतेर्नवनीतचौर्यं शक्यतावच्छेदकं बोध्यम् । सर्वकर्मकर्तृत्वमष्टमीतिथिजातस्य भवतीति चौरकर्मकर्तृत्वमपीति वा, अत एवैकादशसुबोधिन्यां 'मूर्त्यामिमतया खये'त्यस्य प्रकारसहस्रमध्ये नवनीतचौर्यादिरूपेषु स्वभावो नियामक इति । प्रसिद्धं तु नवनीतप्रियजित्वं शक्यतावच्छेदकम् । एवं चोत्सवाध्याये ऐश्वर्य- निरूपके या बाललीला तया नवमेध्याये ज्ञाननिरूपके नवनीतादिचौर्यं तेन च प्रमाणप्रकरणीयाः सर्वा लीलाः प्रसिद्धाः श्रीनवनीतप्रियजितीत्युक्तम्, 'जानीत परमं तत्त्वं यशोदोत्सङ्गललित'मिति भाष्यात् । ननु मूलरूपानुकारत एव सेव्यो मुख्यत्वादित्याकाङ्क्षायामाहुः प्रतिविधानम् । स सेव्य इत्यादि । भवेदेतदेवं यदि धर्मित्वेनैव भक्तिविषयः स्यात्किन्तु ऐश्वर्यादिरूपा धर्मा अपि नवनीतचौर्यादि- रूपैस्तस्य मूलरूपस्य प्रभावः प्रकृष्टो भावो धर्मस्तस्माद्धेतोः स नवनीतचोररूप ऐश्वर्यधर्मोपि सेव्यः । अन्यथा 'प्रकाशाश्रयवद्वा तेजस्त्वा'दित्यत्र निरूपितो भगवतो धर्माभेदो माहात्म्यं जीवा- त्म्यैक्यं च ज्ञापयन् स्नेहमात्रपर्यवसायी स्यात्, एवं तु स्नेहेन धर्मानुवृत्त्याप्यसेवापर्यवसायीति सिद्धा- न्तमुक्तावलीस्थ'कृष्णसेवा सदा कार्ये'ति वाक्यानुगुण्यमेव गुणः । कृष्णो भगवान् । भगवानिव भगा अपि सेव्या इति । अन्यथा युगलगीते 'कृष्णे वनं यात'इत्युक्ते सति तल्लीलाः प्रगायन्त्य इति वक्तव्ये 'कृष्णलीलाः प्रगायन्त्य' इत्युक्तौ कृष्णपदं व्यर्थं सत् किंचिज्ज्ञापयति कृष्ण इव कृष्णलीला इति सतिप्रयोजनको ग्रन्थः स्यात् । भगा लीलावत् । धर्मी त्वरसः, सर्वरसोयं त्वैश्वर्यधर्मोद्भुतरसः । ऐश्वर्यलक्षणम् । ईश्वरस्य भाव ऐश्वर्यमित्यत्र प्रकृतिजन्यबोधे प्रकारस्य महात्मन ईश्वरेण सह भेदसम्बन्धस्याव्युत्पन्नत्वेनालौकिकविषय एव युत्तयगोचरेऽभेदसंसर्ग आस्थीयते, 'प्रकाशाश्र- यवद्वा तेजस्त्वा'दिति सूत्रभाष्योक्तरीत्या । आस्थिते च प्रकृतिप्रत्ययार्थाभेदे ऐश्वर्यमालम्बनविभावः । तद्गुणातिशया नवनीतचौर्यादय उद्दीपनविभावाः । स्तवकीर्तनाश्रुपातादयोऽनुभावाः । तनुजवित्त- जसेवामाहात्म्यज्ञानवैराग्यगतिधृतिहर्ष्यादयो व्यभिचारिभावाः । देवादिषयियो विस्मयः स्थायिभावः । अत्राधिकारिणो राजसा नराः, 'मल्लानामशनि'रित्यत्र सुबोधिन्यां स्पष्टम् । वात्सल्यरसो धर्मी इत्येवमुक्तं वात्सल्यरसो वा । अथ परिमाणम् । वैश्वानराधिकरणे गोवर्धनाधीशरूपं मूलरूपानु- कारत इति तरुणमिति गोपालतापनीयश्रुत्युक्तस्वरूपणकारः स्पष्ट एव नो प्रोच्यते । तत्रापि 'शुक्लिस- हस्तः पुरुषो भक्तमाकारयत्युते'ति भागवतार्थनिबन्धोक्तः श्रीमदाचार्यभावित्वात् । स चातिसरसरूपे यद्वा पुरुषोत्तमयोगाध्याये 'स सर्वविद्भजति मां सर्वभावेन भारते'ति गीता । अत्र गीतायां सर्वभावेन मां भजतीत्यनेन । पूर्वा....भगवद्धर्मधर्मितनुभावरूपमत्र नवरत्नसन्निवेशो परिवृढाह्रह्रटीकायाम् । ऐश्वर्यरूपं तु बाललीलापदसमभिव्याहाराच्च तरुणमिति प्रादेशमात्रं प्रोच्यते । तथा च तत्रैव भाष्यम् । 'शब्दादिभ्योन्तःप्रतिष्ठाना'दित्यादिसूत्रे विरुद्धधर्माणां तत्तद्धर्मापत्तिरित्यैश्वर्यमेव भगवतो वर्णितमिति 'आमनन्ति चैन'मिति सूत्रे तस्मात्प्रादेशमात्रो व्यापक इति वैश्वानरो भगवानवेति सिद्धमिति च । तस्मात्प्रादेशमात्रो व्यापक इति भाष्ये व्यापकत्वांशे 'आनन्दादयः प्रधानस्य' इति सूत्रे लीलापदार्थास्तु ब्रह्मधर्मत्वेन व्यापका उच्यन्ते । व्यापकस्य धर्मिणो अनागन्तुकधर्मस्य व्यापकत्वनियमादिति भाष्यम् । तेन ऐश्वर्यादीनां ऐश्वर्यादय एवं तेषामपीति न भावनीयं पूर्वसूत्रे प्रतिषेधात् । गुणप्रकरणनिबन्धे । ऐश्वर्यादिलक्षणानि । कर्तुमकर्तुमन्यथाकर्तुं समर्थ ईश्वरः । 'येनैतावत्कृतं सर्वं स कृष्णो भगवान्परः । इति दर्शयितुं षष्ठिरध्यायैः बहुजाड्यगा'विति बहुणप्रयोजनं देवकीवसुदेवादीनामन्त- 2376