सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2515, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2515

र्बहिरानन्ददानं ज्ञानादिना पुत्रादिभ्यश्चातस्तादृशानामन्तर्बहिर्ज्ञानं पुत्रादिभ्य आनन्दान् यः प्रयच्छति । स ईश्वरः स एवैश्वर्यम् वेणुगीते च ‘ईश्वरः पूज्यते लोके मूढैरपि यदा तदा । निरुपाधिकमैश्वर्यं वर्णयन्ति मनीषिणः’ इति ‘धन्याः स्म मूढमतय’ इत्यस्य सुबोधिन्यां, तथा अन्यान्यपि । बाललीलायां स्पष्टं तु झुत्सवाध्याये आनन्ददानं स्वेन पुत्रेण बहिरानन्ददानमैश्वर्यकार्यम् । तथा ग्रामीणानां मूढानां पूजनं चोत्सवाध्यायनिरूपितबालकस्य श्रीनवनीतरायजितः स्मर्यते । तद्रूपे साकारव्यापकत्वमग्रे शृङ्गारस्वरूपे वर्णियष्यते । परं धर्मिणि अतो धर्मे ऐश्वर्यरूपे । अत्रैवं भक्त्या प्रकटे सर्ववेदान्तप्रत्ययाधिकरणोक्तरीत्या सर्वे धर्मा उपसंहर्तव्याः । तेन धर्मी न निर्धर्मकः नापि भिन्नो निरोधं कुरुत इति सिद्धम् । अत्र अन्यथाकर्तुं समर्थत्वं ज्ञ