सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2516, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2516

अन्यच्च मथुरां गत्वा वीर्यरूपेण भक्ताधिमर्दनं कृत्वा सान्दीपिनिगुरुं गोपिकाश्च पुत्रद्वारा अमर- गीतोक्तज्ञानद्वारा च सान्त्वयित्वा पुनर्मथुरां गत इत्यर्थः । तत्रापि वीर्यरूपेण भक्ताधिमर्द्दनातिरिक्त- लीलाकरणाद्वीर्यरूपेण मथुरां गत्वेत्यादि सङ्गतं न भवति यद्यपि तथापि 'ह्येकं रूपं रसात्पृथ'गिति नैयायिकानां सामानाधिकरण्येन रूपे गुणे एकत्वसङ्ख्यया तथा पृथक्त्वरूपो गुणो यथा तथा वैराग्यादिना भक्ताधिमर्द्दनातिरिक्तं सर्वमुपपद्यताम् । वीर्यलक्षणम् । 'वीर्यं मे दुश्चरं तप' इति वाक्यात्तपः । तद्विविधम् । 'बुद्धिवीर्यं क्रियावीर्यं क्रिया च द्विविधा मते'त्यस्यां कारिकायां बुद्धिवीर्यं बुद्धिरूप- तत्त्वान्तरकृतिः सा सुभद्राप्रसङ्गे लोकदोषेण सर्वदा कन्यात्वेनैव स्थितेरुक्तत्वादुत्पन्नायाः सुभद्राया- श्चौर्यायार्जुनाय दान