अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2517, कुल 2600 में से
संदर्भ में पढ़ेंयशोरूपेणेति । यशोरूपेण भक्तातिं हृतवान्स्वप्रयासतः । सर्वशक्तियुतः प्रेम्णा स सेव्यो विठ्ठलेश्वरः ॥ १० ॥ अश्नुते अश् भोजने, अशेर्देवने युट् चेत्यसुन् यशः । पूर्वोक्तप्रकारेण भक्तानामिच्छातो यशोरूपेण प्रकटो भवति । यशोरूपेण प्रेम्णो ज्ञापकविरहात्मकशब्दात्मकस्य योजनेन सात्त्विकभगवद्भक्तानामार्त्तिः गीतोक्ताधिकाररूपा 'चतुर्विधा भजन्ते मा'मिति फलप्रकरणीयद्वितीयाध्यायोक्ता । तस्य यशोनिरूपकत्वात् तृतीयेऽध्याय्येपि । तत्र च भक्तानामवस्थाद्वये द्वितीयावस्थानुपचिते विरहानुभवो अतो भक्तानामार्त्तिः । तामार्त्तिं स्वप्रयासतः स्वस्य प्रेम्णा ज्ञापक इत्यायुक्तः प्रयासः प्रयत्नः प्रमेयबलं ततः सर्वासु शक्तिषु व्रजवनितासु हृदि युतो मिश्रितः । विरहे आन्तरत्वाद्धिठ्ठलेश्वरस्य । तादृशः सन्नार्त्तिं हृतवान् । 'आन्तरं तु परं फल'मिति सुबोधिन्याः परत्वावच्छिन्ने फले ये विविधा भावा उत्पद्यन्ते न ते सङ्गमे इति । एतज्ज्ञा- पितं नयनमुद्रणेन विरहेन्तर्भावे ज्ञानाभावात् । अतोत्र संयुक्तो रतिपतिः वियुक्तस्त्वग्निरूप इति । स विठ्ठलेश्वरः प्रेम्णा हर्षभावेन सेव्यः । 'रतिर्देवादिविषया व्यभिचारी तथाञ्जितः भावः प्रोक्त', इति काव्यप्रकाशात् । अत्र विठ्ठलेश्वरत्वं शक्यतावच्छेदकम् । अत्र यशोरूपविठ्ठलेश्वर आलम्बनं मन्दि- रोत्सवादिकमुद्दीपनम् । हर्षकारणत्वात् । अश्रुपातादयोऽनुभावाः हर्षकार्यत्वात् । वैराग्यतनुवित्तज- सेवादिसञ्चारिभावाः । हर्षः स्थायी भावः । विस्तारिकायां हर्षस्योत्सवादिभिरुत्पत्तिकथनात् । उद्दीपनेपि ह्युत्सवादिकमुपात्तम् । प्रेम्णः सञ्चारिणोस्य हर्षस्य स्थायिभावत्वं शान्तरसे निर्वेदवत् । अस्य दुःखात्मकस्यापि सुखरूपत्वं रसस्यापरिमितलोकोत्तरानन्दरूपत्वेन तदन्तर्गतदुःखस्यापि सुख- रूपत्वम् । नखक्षतकृतदुःखस्येव अत्र प्रेमपदमावृत्तं तच्च स्वाश्रयानन्दे लाक्षणिकम् । अतोत्र प्रेमपदेन हर्षो रसः । श्रीकृष्णगोपिकाप्रौढेत्यादिना वक्ष्यते । वैश्वानराधिकरणोक्तं प्रादेशमात्रं परिमाणम् । निबन्धे लौकिकालौकिककर्तृत्वम् । वेणुगीते यशोलक्षणम् । 'समपादाम्बुजं सूक्ष्मं कटिलग्नं भुजद्वयम् । किरीटिनं लसच्छङ्खं विठ्ठलेशमहं भज' इति शङ्खचूडहननेन स वैराग्ययुतः शङ्खयुतः । मूलरूपनिष्ठं वैराग्यं अपि यशोरूपेपि प्रत्येति । एकं रूपमितिवत् । पीठं तु सर्वात्मभाववद्भक्तहृदयम् । निर्गुणे भगवद्रूपे मूढानां सात्त्विकभगवद्भक्तानां प्रत्यक्षासक्तिवारणं विधाय ज्ञानभक्त्यात्मकं स्वधर्मं तेषु योजयित्वा तज्ज्ञापकविरहात्मकं शब्दात्मकं च योजयित्वा मनसो निवेशनं यत्तत्करणत्वं यशस्त्वं अष्टाविंशतितत्त्वसम्मित नाभि यशसीत्यादिगुणप्रकरणे श्रुतिगीताध्याये कारिकासु लक्षणं वेणुगीती- यलक्षणसंमेलनेन । तदुक्तं वेणुगीते । 'यशो यदि विमूढाना प्रत्यक्षासक्तिवारणात् । स्वधर्मं योजयेत्तेषु तदा भवति नान्यथे'ति । अत्र प्रयोगः । ब्रह्म यशसा, मूढानां भक्तानां प्रत्यक्षासक्तिवार- णज्ञानभक्तियोजनोभयद्वारा निर्गुणे भगवद्रूपे मनोनिवेशनं कारयतीति । 'यशः कीर्तिः समाज्ञा च स्तवः स्तोत्रं स्तुतिर्नुति'रित्यमरः । आधारोत्कर्षाधायकगुणवर्णनं स्तुतिः । एतदेवाधारोत्कर्षाधायकस- र्वजनाह्लादकगुणवत्त्वम् । गुणवद्गुणवर्णनम् तत्त्वं स्तुतित्वं यशस्त्वमपि । विदा ज्ञानेन ठान् शून्यान् लालयत्युल्लासयति यः स्वयं स विठ्ठलः कथ्यते बुधैः स ईश्वरो विठ्ठलेश्वरः पुष्टिरूपमिदम् । शङ्खचक्र- गदापद्मश्रिया जुष्टमिति मर्यादारूपम् । विरह इत्यादि । विरहे भावितप्रेम्णा प्रियया द्वारिकास्थितः । मार्गंतोङ्गीकृतः सेव्यः श्रियया द्वारिकेश्वरः ॥ ११ ॥ १-निर्गताः प्रकृतिगुणा यस्मात् । निस्सङ्गीत्याशये । २. भिवा वा इति पाठः ।