अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 252, कुल 2600 में से
संदर्भ में पढ़ेंAn exact, line-by-line transcription of the Sanskrit text from the image into Markdown in Unicode Devanagari:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६५ भाष्यप्रकाशः। त्वाच्च । अस्तु वा सौबालवाक्यस्यादिसृष्टिविषयत्वं, तथापि न तदानीं वैशिष्ट्यसिद्धिः । पृथिव्या- दीनां नाद्येतामुद्रसलिलैक्यवदविभागापत्तिरूपप्रलयस्य तमसश्च करणानां जलैक्यवत् पूर्वा- भावापत्तिरूपस्य ब्रह्मैक्यस्य शक्यवचनत्वात् । आत्मपदस्य केवलात्मवाचित्वेन विशेषणान्तर- संग्रहाक्षमत्वात् । अन्यथा देहविशिष्टात्मप्रत्ययस्यापि प्रामाण्यापत्तेः । नच निर्विशेषत्वापत्तिः । सच्चिदानन्दरूपाकारस्य 'कृत्स्नः प्रज्ञानघनः', 'आनन्दरूपममृतं यद् विभाति' इत्यादिश्रुतिभि- स्तत्सिद्धेः । तस्मात्, 'सदेव सोम्य' इत्यत्र सच्छब्देन केवलं ब्रह्मैव परामृश्यत इति मन्तव्यम् । आत्मपदवत् सत्पदस्यापि केवलब्रह्माभिधायित्वा