अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 253, कुल 2600 में से
संदर्भ में पढ़ें१६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ केचिदत्र शास्त्रयोनित्वपूर्वपक्षनिराकरणाय, तत्तु समन्वयादिति योज- यन्ति । तत् पूर्वपक्षसिद्धान्तयोर्द्वयोरप्यसंगतत्वादुपेक्ष्यम् । भाष्यप्रकाशः । वेदेतिवत् न त्वयोग्यत्वे । घटो न वेदेत्यादिप्रयोगादर्शनात् । अतः सर्वत्र चिदन्वयोऽवश्य- मुपेयः । सदन्वयस्तु प्रत्यक्षसिद्ध आनन्दान्वयश्चेत्यतोऽपि ब्रह्मणोपादानम् । नच मृदब्रवीदित्यादौ विधाभिमानिनमादाय तयोक्तिरिति वक्तुं शक्यम् । जीवानुप्रवेशकृततद्वैशिष्ट्यस्य पाश्चात्यत्वेन पूर्वं युंष्माभिरित्था वक्तुमशक्यत्वात् । अनुप्रवेशश्रुतिविरोघेन सर्वदा वैशिष्ट्यस्याशक्यवचनत्वात् । सदैवविनामावे चिदचिद्विवेकप्रसङ्गात् । आत्मा न वेदेति पृथङ्निर्देशवैयर्थ्यप्रसङ्गाच्च । अत उक्तलिङ्गेनापि ब्रह्मण एव केवलस्य परिणामनिश्चयादुपादानत्वम् । नच स्वभावासांकर्यप्रसङ्गः । प्रजायेयेतीच्छयैवोचनीचादिभावसिद्धौ सांकर्याभावात् । सृष्टिप्राक्काले त्वितराभावेनैवाकङ्क्षानुत्था- नात् । अतो विशिष्टाद्वैतवादस्यार्वाचीनत्वात् । सर्ववस्तूनां ब्रह्मपरिणामत्वेन ब्रह्माभिन्नतयैव पदार्थत्वात् सर्वैः शब्दैस्तत्तद्रूपं ब्रह्मैवोच्यत इति कारणवाचकब्रह्मवाचिना शब्देन कार्यवाचिनां शब्दानां सामानाधिकरण्यमुपपादनमन्तरेणापि मुख्यवृत्तमिति सिद्धान्तपन्थाः । प्रकृतमनुसरामः । अस्मिन् सूत्रे रामानुजाचार्यादिमतमुपक्षिपन्ति केचिदित्यादि । ते हि पूर्वपक्षसिद्धान्तावेवमाहुः । तथाहि । यद्यपि शास्त्रयोनित्वसूत्रे ब्रह्मणः शास्त्रमात्रप्रमाण- कत्वं साधितं तथापि तन्नोपपद्यते । 'चोदनालक्षणोऽर्थो धर्मः,' 'तस्य ज्ञानमुपदेशः,' 'तद्भूतानां क्रियार्थेन समाम्नायः', 'आम्नायस्य क्रियार्थत्वादनानर्थक्यमतदर्थानाम्' इति जैमिनिना तत्र तत्र रश्मिः । एव मुख्यमिति । अल इति प्रसक्तस्य निषेधायोगादित्यर्थः । आनन्द्येत्यादि स्त्रीपुत्रादयः प्रिया इति प्रतीतेः प्रत्यक्षसिद्ध इति शेषः । तयोक्तिरिति यं पृथिवी न वेद इत्याद्युक्तिरि- त्यर्थः । तद्वैशिष्ट्यस्येति अभिमानिवैशिष्ट्यस्येत्यर्थः । पूर्वमिति जीवप्रवेशात्पूर्वमित्यर्थः । ननु सर्वावस्थावस्थितं विशिष्टमिति चेत्तत्राहुः अनुप्रवेशेत्यादि । अनुप्रवेशो हि भूतपूर्वे अचिद्वस्तुनि चितः पश्चात्प्रवेशः स च सर्वदा वैशिष्ट्ये न घटत इत्यर्थः । ननु तिस्रो देवता इत्यनुप्रवेश- श्रुतौ श्रावणाद्देवताविशिष्टे एवाचिद्वस्तुनि जीवप्रवेशे नानोरनर्थकत्वात्सर्वदा वैशिष्ट्यं शक्यवचनमिति चेत्तत्राहु