अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 254, कुल 2600 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the Sanskrit text in Devanagari from the provided image:
वेदस्य प्रवृत्तिनिवृत्तिजनकक्रियापरताया एवानुक्रान्तत्वाद् ब्रह्मरूपसिद्धार्थपरत्वे प्रयोजनशून्य- त्वप्रसङ्गात् । नच प्रत्यक्षादीनां वस्तुयाथात्म्यावबोधपर्यवसानदर्शनाच्छास्त्रेऽपि तथात्वमस्त्विति शङ्क्यम् । लोके वेदे च प्रयोजनरहितवाक्यप्रयोगास्यादर्शनात् । प्रयोजनं च प्रवृत्तिनिवृत्तिसा- ध्येष्टानिष्टप्राप्तिपरिहारात्मकमेवोपलब्धम् । तदनुद्दिश्य न केनापि किंचिद्वाक्यं प्रयुज्यते श्रूयते वा । अतो वेदेऽपि तथात्वं युक्तम् । नच पुत्रस्ते जातो, नायं सर्पो रज्जुरेषेत्यादिषु लौकि- कवाक्येषु हर्षभयनिवृत्त्यादिरूपपुरुषार्थान्वयदर्शनात् सिद्धार्थपराणामपि वाक्यानां प्रयोजनवत्त्वं शङ्कनीयम् । तत्रापि वाक्यार्थज्ञानादेव तत्प्राप्तेर्वाक्यस्य प्रतारणया प्रयोगेऽपि तत्सम्भवाद् वाक्यस्यार्थपरताया निश्चेतुमशक्यत्वात्