अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 255, कुल 2600 में से
संदर्भ में पढ़ेंAn accurate line-by-line transcription of the page into Markdown in Unicode Devanagari:
दित्येवमर्थसिद्धेः । अतः स्वनिबन्धनाया उपाधिनिबन्धनायाश्च कर्तव्यतायाः प्रामाण्ये विशे- षाभावात् सिद्धस्यापि ब्रह्मणोऽनिष्पन्नतारूपेण साध्यत्वाविरोधात् वेदान्तानां ब्रह्मणि कार्यपरत- यैव प्रामाण्यं, न स्वातन्त्र्येणेति द्वितीयः पूर्वपक्षः । तथाऽपरोऽपि । यद्यपि वेदान्तवाक्यानां स्वातन्त्र्येण सिद्धरूपब्रह्मस्वरूपपरतया न प्रामाण्यं, तथापि 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः,' 'य आत्माऽपहतपाप्मा सोऽन्वेष्टव्यः स विजिज्ञासितव्यः,' 'आत्मेत्येवोपासीत,' 'आत्मानमेव लोकमुपासीत' इत्यादि- ध्यानविषयो नियोगः स्वविषयभूतध्यानस्य ध्येयैकनिरूपणीयतया ध्येयमाक्षिपन्, 'सत्यं ज्ञानमनन्तं ब्रह्म,' 'सदेव सौम्येदमग्र आसीत्,' 'इदं सर्वं यदयमात्मा,' 'अयमात्मा ब्रह्म