अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2521, कुल 2600 में से
संदर्भ में पढ़ेंसेव्य एव सः' । निरूपितम् । अत्र जृम्भालीलेति भावनायां यशोनिरूपके सप्तमाध्यायेऽस्ति । 'यशोरूपेण कृष्णोऽत्र प्रकटो बाललीलया । नवनीतादिचौर्येण स सेव्यस्तत्प्रभावतः' । अत्र श्रीबालकृष्णजिति जृम्भालीला सत्त्वशुद्धिलीला च । जृम्भालीलाभावने 'यशोरूप' इत्यादिकारिका । सत्त्वशुद्धिलीलानाम् शौर्यादिलीला अष्टमाध्यायोक्ता श्रीरूपा । 'स्वश्रीनिरूपेण श्रीकृष्णः प्रकटो बाललीलया । नवनीतादिचौर्येण स सेव्यस्तत्प्रभावतः' । श्रीनिरूपणे उक्तप्रायम् । गोकुलचन्द्र- मोजितायें श्रीबालकृष्णजित्युदूखललीला प्रसिद्धा ज्ञानरूपा । 'एकदा भाण्डस्फोटेन रज्जूनयतयापि हि । ब्रह्मत्वबोधनार्थं हि ज्ञानं कुर्वन् स सेव्य उ' । ज्ञाननिरूपणे पूर्वं स्फुटम् । श्रीमदन- मोहनजिति नलकूबरमणिग्रीवोद्धारलीला प्रसिद्धा । 'दामोदरेण' 'परमविक्रमितातिवेपस्कन्धप्रवाल- विटपा'वितिपदाभ्यां वीर्यरूपा । 'वीर्यरूपेण यमलार्जुनौ गत्वाधिमर्दनम् । कृत्वा च मोचितौ चैव तद्रूपं सेव्यमेव च' । वीर्यनिरूपणे स्पष्टम् । भावनायामप्येवम् । बालस्यात्र मदनमोहनक्रीडानुकरणं न मदनमोहनत्वम् । इति तद्रूपनिरूपणम् । त्रिषु साकारव्यापकं तद्रूपं च निरूप्य तत्र स्थितं निरूपयितुं यद्यपि तत्र स्थिता अन्येप्यङ्गु- ष्ठादिरसाः पूर्वमुक्तास्तथापि शृङ्गाररसेनेवान्ये रसतां भजन्त इत्यावश्यकमन्येषु रसेषु रसताजनकं शृङ्गारमङ्गीकुर्वन्तः शृङ्गारेणाविहितभक्त्यात्मकेन यथा ब्रह्मत्वेन स्नेहः पुष्टौ भवति न तथाऽविहितेन वात्सल्येन मत्या वा भवतीति गुरुभूताभिर्व्रजसीमन्तिनीभिराघृतम्, अक्षराभिन्नोऽक्षरे प्रतिष्ठित इति अदृश्यत्वाधिकरणेऽक्षरस्यापि ब्रह्मत्वं पुरुषस्यापि तयोः परापरभावः अभेदश्च, एतादृश एव हि ब्रह्मवाद इति भाष्यात्तादृशं शृङ्गारं निरूपयांबभूवुः प्रतिज्ञापूर्वकं मङ्गलाचरणपूर्वकं चाज्ञानां गीताद्यविदुषां खविभ्रसम्भवात् शृङ्गारस्वरूपम् । कन्दर्पेत्यादि । कन्दर्पकोटिलावण्यं नत्वा गोपीजनप्रियम् । शृङ्गाररसरूपं हि यादृक् तादृङ् निरूप्यते ॥ १ ॥ ननु पुरःस्फूर्तिकं ब्रह्मत्वं तत्र स्थितं रूपं न त्यक्तुं योग्यमतः कुतः शृङ्गाराङ्गीकार इति चेच्छृणु । ब्रह्मत्वं सत्त्यादिरूपं शृङ्गारे पर्यवस्यति, श्रीभागवतमते सत्यं परं धीमहीति ब्रह्मणि वेदार्थविस्तारकसति साधौ सत्यपदप्रयोगात्सत्यं लक्ष्मीस्तथा एकादशे 'आसीज्ज्ञानमयो ह्यर्थ एक- मेवाविकल्पित'मिति ज्ञानं ब्रह्म तथाऽशने सङ्कर्षणः शेषस्वरूपोऽनन्त इत्यर्थ उक्त एता.......वत्त्वं ब्रह्मवादत्वं........द्वितीय....धन....नित्यस्य लीलावादे । ननु शृङ्गारः कामस्तुतीयशास्त्रप्रतिपाद्यः कथं तुरीयरूपे तुरीयशास्त्रप्रतिपाद्ये कामपुरुषार्थ इति चेन्न 'भगवान्नेव हि फलं' सायुज्यं मोक्ष आन- न्दोऽमृतमिति पर्यायाः । सायुज्यं च युनक्तीति युक् सह युक् सयुक् सयुजो भावः सायुज्यम् । 'सायुज्यं कृष्णदेवेन शीघ्रमेव ध्रुवं फल'मिति निबन्धात् । 'भगवत्सेवोपयोगिदेहो वैकुण्ठादिषु अलौकिकसामर्थ्यं च' पुष्टौ फलम्, तत्र वास्तविकाणुत्वविशिष्टानामकरात्मकानां जीवानां ब्रह्मणि योगस्तूष्णीभूतानन्दपदवाच्यत्वमपि सायुज्यपदवाच्यस्वेति कोप्यानन्द इति संशये गीता प्रवर्तते 'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यह'मिति मर्यादामार्गीयमोक्षे मर्यादिकं गर्भाधानमवसीयत इत्येवम् । अत एव 'सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जित'मिति क्षेत्रक्षेत्रज्ञाध्याय एव ब्रह्मस्वरूपम् । पुष्टिमार्गीयफलयोस्तु 'आनन्दं ब्रह्मणो विद्वान्' इति श्रुत्या स्फुट एवानन्दो रसात्मेति द्वादशाध्याये १. रसो वै स इति श्रुत्या च सिद्धम् । ४ परि० 2383