अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2522, कुल 2600 में से
संदर्भ में पढ़ें'तं गोरजश्छुरितकुन्तले'त्यत्र धर्मार्थकाममोक्षाणां चतुर्णां धर्मादिसहितानामेव मोक्ष इत्येकवाक्यतेति शृङ्गाररसो निरूपित इति च सुबोधिनीटिप्पण्यां स्फुटेयं 'अतः शृङ्गारस्वरूपं निरूप्यत' इति प्रतिज्ञा । श्रुतिरूपाणां व्रजसीमन्तिनीनामत्र शृङ्गार एव मनोरथान्तप्राप्तेः 'मनोरथान्तं श्रुतयो यया ययु'रिति वाक्यात् । आनन्दमात्रं पुराविदामिदं रूपमत एव वेणुगीतसुबोधिन्यां 'कृष्णं निरीक्ष्ये'त्यत्र 'तत्क्वणितवेणुविचित्रगीत'मित्यस्य व्याख्याने गीतं शृङ्गारान्तर्गतमिति विचित्रमिति विशेषणेन शृङ्गार एव सर्वरसा इति नाट्यशास्त्रसिद्धान्त इति विचित्रमद्भुतरसवत् । किञ्च अन्यस्य रसत्वमेव न मन्यन्ते यथा महान्तः सुवर्णाभरणान्येवोपकरणानि कुर्वन्तीति सुबोधिन्यां भावनोक्ताः सर्वत्र शृङ्गारभावना । तया हि श्रीगोवर्धनाधीशेषु भक्तमनोरथेन तामसप्रकरणीयफलप्रकरणोक्तपूर्णानन्दैश्वर्यादयः प्रधाने भावेल्लिमाः 'उत्क्षिप्तहस्तः पुरुषो भक्तमाकारयत्युते'ति भक्तमनोरथपूरकं रूपमालम्बनविभावः शृङ्गारे शान्तरसे च । ननु कुतः शृङ्गार इति बृहदारण्यके ज्योतिर्ब्राह्मणे तद्भाष्येऽसौ'तदात्मकाममाप्तकाममका- मयरूपं तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायँशारीर आत्मा प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तर'मिति अत्र प्रियस्त्रीदृष्टान्तशारीरात्मप्राज्ञरूपजीव- दार्ष्टान्तिकयोर्दर्शनात् । इदं प्रथमाध्यायतृतीयपादान्ते 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यधिकरण उक्तम् । आचार्यमार्गे तु अन्यत्सर्वं भक्तमनोरथहेतुकं भक्तिरसरूपम् । तत्रालम्बनमुक्तम् । उद्दीपनविभावस्त- च्छेष्टा, अनुभावः भगवता समं संलापादिः, स च भगवच्छय्यादिरूपशेषः पीठस्थः यद्यपि चतुर्भिर्व्यूहै- रेकोत्रालम्बनविभावस्तथापि रामः........पि कृष्णावतारे स दृष्टः अनिष्टशङ्कायाः रसान्तःपातिनो व्यभिचारिभावाः हरिदासनिष्ठाः नृसिंहोऽक्षरावतारः योऽदृश्यत्वाद्यधिकरणे पुरुषोत्तमाधिकरणं तत्रोक्ताभिन्नाक्षरचरणारविन्दौ मुक्तभक्तौ मयूरो, मुक्तजीवः शुकश्च भक्तमुक्तौ त्रयोपि व्रजभक्तानां पुंभावगताः । मेषश्चेष्टारूपः कालः महिषी........क्षे उपवेदादि ऋग्रूपगोभ्यः............पश्चा'द्गजा गावो महिष्यश्चे'त्यत्र कीर्तनाद् द्वितीयः शेषश्च, भावनीया गावः ऋचः शङ्खश्चेद्यमुनाजित्तयान्तःकरणीया इति । श्रीनवनीतप्रियजित्सु गुप्तरसप्रकारो बालभाव एव । निरावृतस्वरूपं रसाधायकमिति कटिवस्त्राणि नो धारणीयानि । वासुदेवव्यूहकार्यस्य मनोरथान्तदान आवश्यकत्वात् । 'जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरासुरांस्तानहो बुधा' इत्यादि । श्रीमथुरेशजित्सु भुजाचतुष्टयं स्वानन्ददानं वासुदेवव्यूहस्य सायुज्यदातुः सत्त्वात्तत्क्रीडा पूर्वोक्तश्च व्यूहस्तत्सहिता गोपीजनानां भक्तस्वं.............................................गोचारणं कृत्वा व्रजे यदागच्छति तदा भक्तानां स्वमुखामृतपानं कारयति यत्तत् । द्वितीया स्वानन्ददाने प्रति- बन्धनिवारणं विरहजतापसोपशमनम् । तृतीया स्वसेवाकारणं मार्गे सन्ध्याभोगस्य स्वीकरणम् । चतुर्थी आधिदैविकभावस्य परम्परोद्बोधनं वने चतुर्दशरसानां या लीला कृता सा, प्रत्येकरसानां स्थायिभावान् प्रकटीकृत्य व्रजभक्तासुद्बोधितेति । श्रीमद्विठ्ठलनाथजित्सु तामसप्रकरणीयफलप्रकरणद्वितीयाध्याय्योक्तलीला प्रसिद्धा तत्र वीर्योक्ति मोक्षप्रसङ्गाद्वासुदेवप्रसङ्गात् वासुदेवचरित्रं बोध्यम् । श्रीद्वारकानाथजित्सु 'भूवह्नीसंज्ञ्यादौ सहचरि निकोरे वर्जयित्वा स्वकीयाम् पश्चादागत्य तूष्णीमय नयनयुगं सन्प्रियाया निमील्य । 2384