अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2523, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम् । २७ कोस्मीत्येतद्वचनमसकृद्वेणुना भाषमाणः पातु क्रीडारसपरिचयस्तां चतुर्बाहुरुच्चै'रिति । श्रीगोकुलाधीशजित्सु साधनप्रकरणीयऋषिपत्नीप्रसङ्गः । श्रीगोकुलचन्द्रमोजित्सु फलप्रकरणीयचतुर्थाध्यायोक्तलीला । श्रीमदनमोहनजित्सु फलप्रकरणीयप्रथमाध्यायोक्तलीला भावनीया एवं षट्सु औत्स- त्तिकेषु गुणोपसंहारेण शृङ्गारलीला भावयितव्या । अष्टस्वरूपाणि धर्मिरूपाणीति भावनायां आनन्द- मनःशरीरजीवशरीरक्रियाप्राणानङ्गाः क्रमश इति केचित् । प्रकृतमुच्यते । कन्दर्पकोटिलावण्यं सम्भोगशृङ्गारो यस्य तं लवणा त्विट् लवणैव लावण्यम् । स्वार्थे ष्यञ् । 'लवणा त्विषी'ति विश्वः । शृङ्गारनिरूपणे विघ्नस्य ध्वंसाय यः कश्चिच्छृङ्गारस्तद्विशिष्ट- रूपस्य मङ्गले कर्तव्यं उपादानमुचितमिति विशेषण